विषयसूची
- (र) वेदारम्भः
- (ल) पूर्णपात्रदानसङ्कल्पः
- (व) गणेशादीनां पूजनम्
- (श) वेदाध्ययनम्
- (ष) दक्षिणादानम्
- –
(र) वेदारम्भः
अथ वेदारम्भः
वेदारम्भस्तु प्रथमं स्ववेदस्यैव कार्यः । गौतमः
वेदारम्भ भने पहिले आफ्नै वेदको गर्नुपर्छ । गौतम
अधीत्य शाखामात्मीयां परशाखां ततः पठेत् । पारम्पर्यागतो येषां वेदः सपरिबृंहणः ॥
तच्छाखं कर्म कुर्वीत तच्छाखाध्ययनं तथा । एवमध्ययनं कुर्वन् ब्रह्मसायुज्यमाप्नुयात् ॥
सपरिबृंहणः सकल्पः वेदारम्भस्तूपनयनानन्तरं कार्यः ।
तत्र योगियाज्ञवल्क्यः
त्यहाँ योगी याज्ञवल्क्य
उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् ।
वेदमध्यापयेदेनं शौचाचारांश्च शिक्षयेत् ॥
॥ इति ॥
अथ प्रयोगः आचार्यो वेदारम्भवेदीसमीपमागत्योपविश्याचम्य गणेशं नमस्कृत्य पञ्चभूसंस्कारपूर्वकम् अग्निस्थापनं विधाय ब्रह्मोपवेशनादिपर्युक्षणान्तं कर्म कुर्यात् । पिता आचम्य गोदानं कृत्वा वेदीं दर्भैस्त्रिः परिसमुह्य तानैशान्यां परित्यज्य गोमयोदकेन उपलिप्य स्रुवमूलेन स्फ्येन वा प्रादेश दीर्घाः स्थण्डिलप्रमाणा वा प्रागग्रा उदक्संस्थास्तिस्रो रेखाः कृत्वा अनामिकाङ्गुष्ठाभ्यां यथोल्लेखं पांसूनुद्धृत्य उर्ध्वं क्षिप्त्वा, उदकेन वेदीं न्युब्जपाणिनाभिषिच्य कांस्यपात्रे निहितं कांस्यपात्रेण पिहितमग्निं वेद्या आग्नेयभागे निधाय क्रव्यादांशं
॥ यति ॥
अब प्रयोग — आचार्यले वेदारम्भको वेदी नजिक आई बसेर आचमन गरी गणेशलाई नमस्कार गरेर पञ्चभूसंस्कारसहित अग्निस्थापना गरी ब्रह्माको आसनदेखि पर्युक्षणसम्मको कर्म गर्नुपर्छ । पिताले आचमन गरी गोदान गरेर वेदीको दर्भले तीन पटक परिसमूहन
ॐ क्रव्यादाय नमः
निऋर्तिदिशि परित्यज्य, स्थण्डिले स्वाभिमुखं स्थापयित्वा, अग्न्यानयनपात्रे साक्षतमुदकं क्षिपेत् । अग्नेर्दक्षिणदिक्स्थ आसने प्रागग्रान् षड्दर्भानास्तीर्य, अग्नेरुत्तरतः प्राङ्– मुखं कर्मतत्त्वज्ञं ब्राह्मणं चन्दनाक्षतपुष्पवस्त्रद्रव्यादिभिः सन्तोष्य, अद्येहामुकगोत्रोऽमुकशर्माहममुकगोत्रस्य अमुकनाम्नो बटोर्वेदारम्भकर्माहं करिष्ये । तदङ्गहोमकर्मणि अमुकगोत्राऽमुकशर्मन् त्वं मे ब्रह्मा भव । वदेत् । ब्रह्मा च
नैऋत्य दिशामा त्यागेर, स्थण्डिलमा आफूतिर मुख पारेर स्थापना गरी, अग्नि ल्याउने पात्रमा अक्षतासहित जल हाल्नुपर्छ । अग्निको दक्षिण दिशाको आसनमा पूर्वतिर टुप्पो पारेका छ दर्भ ओछ्याएर, अग्निको उत्तरतिर पूर्वमुख भई बसेका कर्मको तत्त्व जान्ने ब्राह्मणलाई चन्दन र अक्षता आदिले
भवामि
इत्युक्त्वा अग्नेः पूर्वेणागत्य पूर्वस्थापितासने उपविशेत् । ततो वितस्तिमात्रीं भुवं विहाय, अग्नेर्वायव्ये उत्तरे च प्रागग्रैः कुशैरासनद्वयं कल्पयित्वा, प्रणीतापात्रं दक्षिणहस्तेन वामहस्ते पूर्ववन्निधाय
— यसो भनी अग्निको पूर्वतिरबाट आएर पहिले राखिएको आसनमा बस्नुपर्छ । त्यसपछि एक बित्ता जमिन छाडेर, अग्निको वायव्य र उत्तरतिर पूर्वतिर टुप्पो पारेका कुशले दुई आसन बनाई, प्रणीता पात्र दाहिने हातले बायाँ हातमा पहिलेजस्तै राखेर
दक्षहस्तोद्धृतपात्रस्थोदकेन आत्माभिमुखं पूरयित्वा वायव्यासने निधाय, दक्षिणहस्तानामिकयाऽलभ्य अग्न्युत्तरासने निदध्यात् । ततो बर्हिर्मुष्टिमादाय चतुर्धा विभज्यैकैकभागेन आग्नेयादीशानान्तमुत्तराग्रं ब्रह्मणोऽग्निपर्यन्तं पूर्वाग्रं नैऋर्त्याद्वायव्यान्तं उत्तराग्रमग्नितः प्रणीतापर्यन्तं पूर्वाग्रं परिस्तीर्य पात्रादीन्यासादयेत् । पवित्रच्छेदनार्थं त्रीणि कुशतरुणानि पवित्रे साग्रेऽनन्तर्गर्भे कुशपत्रे द्वे, प्रोक्षणीपात्रम्, आज्यस्थाली, सम्मार्जन– कुशास्त्रयः साग्राः, उपयमनकुशास्त्रयोदश, समिधस्तिस्रः प्रादेशमात्र्यः, पालाश्यः, स्रुवः, आज्यं, गव्यम्, वेदपुस्तकम्, पूर्णपात्रम्, तत आसादितं कुशपत्रं गृहीत्वा, अग्रतः प्रादेशमात्रं विहाय, तयोरुपरि त्रीणि कुशतरुणानि तिर्यङ् निधाय पवित्रमूलेन पवित्रे प्रदक्षिणमावेष्ट्य त्रयाणां मूलाग्राणि द्वयोर्मूलानि च दक्षिणहस्तेन, पवित्रे वामहस्तेन परिगृह्य छित्वा, द्वयोर्मूले त्रीणि चोत्तरतः क्षिपेत् । ततः प्रोक्षणीपात्रं प्रणीताया उत्तरतो निधाय तत्र प्रणीतोदकं सपवित्रहस्तेन त्रिर्निक्षिप्य तदुदकं पवित्राभ्यां प्रादेशमात्रमूर्ध्वं क्षिप्त्वा पवित्रे प्रोक्षणीपात्रे निधाय प्रोक्षणीपात्रं दक्षहस्तेन वामहस्ते निधाय तदुदकं दक्षिणहस्तानामिकाङ्गुष्ठाभ्यां त्रिरुर्ध्वोर्ध्वं क्षिप्त्वा प्रणीतोदकेन प्रोक्षेत् । प्रोक्षण्युदकेन आसादितानि न्युब्जान्युत्तानानि कृत्वा, एकैकशस्त्रिः प्रोक्ष्य, असञ्चरे प्रणीताग्न्योर्मध्ये प्रोक्षणीं निदध्यात् । तत आज्यस्थालीमग्नेः पश्चान्निधाय तत्र आसादितम् आज्यमात्माभिमुखं प्रक्षिप्य, आज्यस्थालीमग्नावारोप्य ज्वलदुल्मुकमग्नौ प्रक्षिप्य उदकं स्पृष्ट्वा इतरथा हस्तमावर्तयेत् । दक्षहस्तेन स्रुवमादाय पूर्वाग्रमधोबिलमग्नौ तापयित्वा वामहस्ते उत्तानबिलं निधाय दक्षिणहस्तधृतमध्यानां संमार्जनकुशानुत्तरतो निरस्य प्रणीतोदकेन न्युब्जपाणिनाऽभ्युक्ष्य पूर्ववत् प्रतप्य उदकं स्पृष्ट्वा दक्षिणतः स्वसमीपे निदध्यात् ॥
ततः आज्यमुत्थाप्य अग्नेरुत्तरतः प्रोक्षण्याः पश्चाद्भागे संस्थाप्य, अग्नेः पश्चादानीय, पवित्राभ्यां किञ्चिदाज्यं प्रादेशमात्रमूर्ध्वं क्षिप्त्वा, आज्यमवलोक्य, अपद्रव्ये सति तन्निरस्य, प्रोक्षणीश्च पूर्ववदुत्पूय प्रोक्षण्यां पवित्रे निदध्यात् । उपयमनकुशान् दक्षहस्तेन वामहस्ते निधाय पूर्वमासादितास्तिस्रः समिध आदाय उत्थाय अग्नौ प्रागग्राः प्रक्षिप्य, दक्षिणचुलुकगृहीतेन सपवित्रेणाशेषेण प्रोक्षण्युदकेन अग्निं पर्युक्ष्य हस्तमितरथावर्त्य पवित्रे प्रणीतासु निदध्यात् । ततो ब्रह्मणा वामबाहौ कुशेनाऽन्वारब्धः पातितदक्षजानुः सोपयमनकुशं वामहस्तं हृदि निधाय उत्तानेन दक्षिणहस्तेन शङ्खमुद्रया मध्यमूलयोमर्ध्ये धृतेन स्रुवेणाज्येन—
दाहिने हातले उठाइएको पात्रको जलले आफूतिर फर्काएर भरी वायव्यको आसनमा राखी, दाहिने हातको साइँली औँलाले छोएर अग्निको उत्तरको आसनमा राख्नुपर्छ । त्यसपछि बर्हिको मुट्ठी लिएर चार भाग गरी एक-एक भागले आग्नेयदेखि ईशानसम्म उत्तरतिर टुप्पो पारेर ब्रह्मादेखि अग्निसम्म
ॐ प्रजापतय इति प्रजापतिऋर्षिस्त्रिष्टुप्छन्दः प्रजापतिर्देवता आज्यहोमे विनियोगः ।
ॐ प्रजापतये स्वाहा । इदं प्रजापतये न मम ।
सर्वत्र स्वाहान्ते द्रव्यप्रक्षेपः । इति मनसा अग्नेरुत्तरभागे प्राञ्चमूर्ध्वमृजुं सन्ततमाज्येन पूर्वाघारमाघारयित्वा ।
ॐ इन्द्रायेति मन्त्रस्य प्रजापतिऋर्षिस्त्रिष्टुप्छन्दोऽग्निर्देवता आज्यहोमे विनियोगः ।
ॐ इन्द्राय स्वाहा । इदं इन्द्राय न मम ।
अग्नेर्दक्षिणभागे प्राञ्चमुत्तराघारम् (इत्याघारौ) । प्रजापतये स्वाहा इति मनसाध्यायन् प्राञ्चमूर्ध्वमृजुं सन्ततमाज्येन अग्नेरुत्तरप्रदेशे पूर्वाघारमाघारयति इदं प्रजापतये इति त्यागं कृत्वा हुतशेषं पात्रान्तरे प्रक्षिपेत् । तथैव इन्द्राय स्वाहा, इति अग्नेर्दक्षिणप्रदेशे उत्तराघारम् इदमिन्द्राय इति त्यागं विधाय, अग्नये स्वाहा इति अग्नेरुत्तरार्धपूर्वार्धे आज्यभागं हुत्वा इदमग्नये इति द्रव्यं त्यक्त्वा तथैव सोमाय स्वाहा इति दक्षिणार्धपूर्वार्धे सौम्यमाज्यभागं हुत्वा इदं सोमाय इति स्वत्वं त्यजेत् समिद्धतमे वाग्निप्रदेशे आघाराज्याः सर्वाहुतीर्जुहुयात् ।
ॐ अग्नय इति प्रजापतिऋर्षिस्त्रिष्टुप्छन्छोऽग्निर्देवता आज्यहोमे विनियोगः ।
ॐ अग्नये स्वाहा । इदमग्नये न मम ।
अग्नेरुत्तरार्धपूर्वार्धेे
ॐ सोमायेति प्रजापतिऋर्षिस्त्रिष्टुप्छन्दः सोमो देवता आज्यहोमे विनियोगः ।
ॐ सोमाय स्वाहा । इदं सोमाय न मम ।
एतावाज्यभागौ ततो ब्रह्मणाऽनन्वारब्धः । अथ यजुर्वेदाहुतयः
यति नै दुई आज्यभाग । त्यसपछि ब्रह्माले नसमाएको अवस्थामा । अब यजुर्वेदका आहुति
ॐ अन्तरिक्षाय स्वाहा । इदमन्तरिक्षाय न मम ।
ॐ वायवे स्वाहा । इदं वायवे न मम ।
ॐ ब्रह्मणे स्वाहा । इदं ब्रह्मणे न मम ।
ॐ छन्दोभ्यः स्वाहा । इदं छन्दोभ्यो न मम ।
ॐ प्रजापतये स्वाहा । इदं प्रजापतये न मम ।
ॐ देवेभ्यः स्वाहा । इदं देवेभ्यो न मम ।
ॐ ऋषिभ्यः स्वाहा । इदमृषिभ्यो न मम ।
ॐ श्रद्धायै स्वाहा । इदं श्रद्धायै न मम ।
ॐ मेधायै स्वाहा । इदं मेधायै न मम ।
ॐ सदसस्पतये स्वाहा । इदं सदसस्पतये न मम ।
ॐ अनुमतये स्वाहा । इदमनुमतये न मम ।
अथ ऋग्वेदाहुतयः
अब ऋग्वेदका आहुति
ॐ पृथिव्यै स्वाहा । इदं पृथिव्यै न मम ।
ॐ अग्नये स्वाहा । इदमग्नये न मम ।
ॐ ब्रह्मणे स्वाहा । इदं ब्रह्मणे न मम ।
ॐ छन्दोभ्यः स्वाहा । इदं छन्दोभ्यो न मम ।
ॐ प्रजापतये स्वाहा । इदं प्रजापतये न मम ।
ॐ देवेभ्यः स्वाहा । इदं देवेभ्यो न मम ।
ॐ ऋषिभ्यः स्वाहा । इदमृषिभ्यो न मम ।
ॐ श्रद्धायै स्वाहा । इदं श्रद्धायै न मम ।
ॐ मेधायै स्वाहा । इदं मेधायै न मम ।
ॐ सदसस्पतये स्वाहा । इदं सदसस्पतये न मम ।
ॐ अनुमतये स्वाहा । इदमनुमतये न मम ॥ ११॥
अथ सामवेदाहुतयः
अब सामवेदका आहुति
ॐ दिवे स्वाहा । इदं दिवे न मम ।
ॐ सूर्याय स्वाहा । इदं सूर्याय न मम ।
ॐ ब्रह्मणे स्वाहा । इदं ब्रह्मणे न मम ।
ॐ छन्दोभ्यः स्वाहा । इदं छन्दोभ्यो न मम ।
ॐ प्रजापतये स्वाहा । इदं प्रजापतये न मम ।
ॐ देवेभ्यः स्वाहा । इदं देवेभ्यो न मम ।
ॐ ऋषिभ्यः स्वाहा । इदमृषिभ्यो न मम ।
ॐ श्रद्धायै स्वाहा । इदं श्रद्धायै न मम ।
ॐ मेधायै स्वाहा । इदं मेधायै न मम ।
ॐ सदसस्पतये स्वाहा । इदं सदसस्पतये न मम ।
ॐ अनुमतये स्वाहा । इदमनुमतये न मम ॥ ११ ॥
अथाथर्ववेदाहुतयः
अब अथर्ववेदका आहुति
ॐ दिग्भ्यः स्वाहा । इदं दिग्भ्यो न मम । ॐ चन्द्रमसे स्वाहा । इदं चन्द्रमसे न मम । ॐ ब्रह्मणे स्वाहा । इदं ब्रह्मणे न मम । ॐ छन्दोभ्यः स्वाहा । इदं छन्दोभ्यो न मम । ॐ प्रजापतये स्वाहा । इदं प्रजापतये न मम । ॐ देवेभ्यः स्वाहा । इदं देवेभ्यो न मम । ॐ ऋषिभ्यः स्वाहा । इदमृषिभ्यो न मम । ॐ श्रद्धायै स्वाहा । इदं श्रद्धायै न मम । ॐ मेधायै स्वाहा । इदं मेधायै न मम । ॐ सदसस्पतये स्वाहा । इदं सदसस्पतये न मम । ॐ अनुमतये स्वाहा । इदमनुमतये न मम ॥ ११ ॥
भूर्भुवः स्व इति महाव्याहृतीनां प्रजापतिऋर्षिर्गायत्र्युष्णिगनुष्टुभश्छन्दांसि अग्निवायुसूर्या देवता आज्यहोमे विनियोगः । ॐ भूः स्वाहा । इदमग्नये न मम । ॐ भुवः स्वाहा । इदं वायवे न मम ।
ॐ स्वः स्वाहा । इदं सूर्याय न मम । त्वन्नोऽअग्न इति वामदेव ऋषिस्त्रिष्टुप्छन्दः अग्नीवरुणौ देवते आज्यहोमे विनियोगः । ॐ त्वन्नोऽअग्ने वरुणस्य विद्वान्देवस्य हेडोऽअवयासिसीष्ठाः । यजिष्ठो वह्नितमः शोशुचानो विश्श्वा द्वेषाᳩसि प्रमुमुग्ध्यस्मत् स्वाहा ॥
इदमग्नीवरुणाभ्यां न मम ॥
सत्वन्न इति वामदेवऋषिस्त्रिष्टुप्छन्दः अग्नीवरुणौ देवते आज्यहोमे विनियोगः । ॐ सत्वन्नोऽअग्नेऽवमो भवोती नेदिष्टोऽअस्याऽउषसो व्युष्टौ । अवयक्ष्व नो वरुणᳩरराणो वीहि मृडीकᳩसुहवो नऽएधि स्वाहा ॥
इदमग्नीवरुणाभ्यां न मम । अयाश्चाग्न इति वामदेवऋषिस्त्रिष्टुप्छन्दोऽग्निर्देवता आज्यहोमे विनियोगः । ॐ अयाश्चाग्नेस्यनभिशस्ति पाश्च सत्यमित्वमयाऽअसि । अया नो यज्ञं वहास्यया नो धेहि भेषजᳩस्वाहा ॥
इदमग्नये न मम । ये ते शतमिति वामदेवऋषिस्त्रिष्टुप्छन्दो वरुणसवितृविष्णुर्विश्वेदेवा मरुतः स्वर्का देवता आज्यहोमे विनियोगः । ॐ ये ते शतं वरुणं ये सहस्रं यज्ञियाः पाशा वितता महान्तः । तेभिर्न्नोऽअद्य सवितोत विष्णुर्विश्वे मुञ्चन्तु मरुतः स्वर्काः स्वाहा ॥
इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वर्केभ्यो न मम । उदुत्तममिति शुनःशेफऋषिस्त्रिष्टुप्छन्दो वरुणो देवता आज्यहोमे विनियोगः । ॐ उदुत्तमं वरुणपाशमस्मदवाधमं विमध्यमᳩश्रथाय । अथा वयमादित्यव्रते तवानागसोऽअदितये स्याम स्वाहा ॥
इदं वरुणाय न मम ॥
ॐ प्रजापतय इति प्रजापतिऋर्षिस्त्रिष्टुप्छन्दः प्रजापतिर्देवता आज्यहोमे विनियोगः । ॐ प्रजापतये स्वाहा । इदं प्रजापतये न मम । ॐ अग्नये स्विष्टकृदिति प्रजापतिऋर्षिस्त्रिष्टुप्छन्दोऽग्निर्देवता स्विष्टकृद्धोमे विनियोगः । ॐ अग्नये स्विष्टकृते स्वाहा । इदमग्नये स्विष्टकृते न मम ।
संश्रवप्राशनं ब्रह्मणे पूर्णपात्रदानम् ।
संश्रवको प्राशन; ब्रह्मालाई पूर्णपात्रको दान ।
(ल) पूर्णपात्रदानसङ्कल्पः
अद्येहामुकोऽहम् अमुकनाम्नः कुमारस्य वेदारम्भाङ्गहोमकर्मणः साङ्गफलप्राप्तये अपूर्णस्यपूर्णार्थमिदं पूर्णपात्रं प्रजापतिदैवतम् अमुकगोत्राय अमुकशर्मणे ब्राह्मणाय तुभ्यं संप्रददे । इति दद्यात् । ततः पवित्रप्रतिपत्तिः प्रणीताविमोकः बर्हिर्होमश्च ।
(व) गणेशादीनां पूजनम्
अथ वेदारम्भक्रमो यथा– अद्येहामुकोहम् अमुकशर्मणो माणवकस्य वेदारम्भकर्मणः पूर्वाङ्गत्वेन गणेशादीनां स्थापनावाहनपूजनानि करिष्ये । ताम्रस्थाल्यादौ दध्यक्षतान्गृहीत्वा उत्तरवृद्ध्या स्थापयेद् । ॐ भूर्भुवः स्वः गणेश इहागच्छेह तिष्ठ पूजार्थं त्वामावाहयामि । ॐ भूर्भुवः स्वः विष्णो इहा... । ॐ भूर्भुवः स्वः सरस्वति इहा... । ॐ भूर्भुवः स्वः लक्ष्मि इहा... । ॐ भूर्भुवः स्वः स्वविद्यासूत्रकार कात्यायन इहा... ।
एतन्त
इति प्रतिष्ठाप्य नाममन्त्रेण ध्यानादिनीराजनान्तं सम्पूज्य ततो ब्रह्मचारिणे यथाविधि वेदमध्यापयेत् । यथा अग्नेरुत्तरतो ब्रह्मचारिणमुदङ्मुखं प्राङ्मुखं वा प्रागग्रेषु कुशेषूपवेश्य स्मार्ताचमनं प्राणायामं बद्धाञ्जलिं च कारयित्वा ।
— यसरी प्रतिष्ठा गरी नाममन्त्रले ध्यानदेखि नीराजनसम्मको पूजा गरेर त्यसपछि ब्रह्मचारीलाई यथाविधि वेद पढाउनुपर्छ । जस्तै — अग्निको उत्तरतिर ब्रह्मचारीलाई उत्तरमुख वा पूर्वमुख पारी पूर्वतिर टुप्पो भएका कुशमा बसाली स्मार्त आचमन, प्राणायाम र हात जोड्न लगाएर
(श) वेदाध्ययनम्
ॐ कारपूर्वां महाव्याहृतिपूर्वां त्रिवारं गायत्रीं पठित्वा स्ववेदारम्भं कुर्यात् । तत्र ॐ इषेत्वादि खम्ब्रह्मान्तस्य माध्यन्दिनीयकस्य वाजसनेयस्य यजुर्वेदाम्नायस्य विवस्वान्ऋषिर्गायत्र्यादीनि सर्वाणि च्छन्दांसि सर्वाणि यजूंषि लिङ्गोक्ता देवता यजुर्वेदारम्भे विनियोगः ।
ॐ कारसहित, महाव्याहृतिसहित तीन पटक गायत्री पढेर आफ्नो वेदको आरम्भ गर्नुपर्छ ।
ॐ भूर्भुवः स्वः इषेत्वोर्ज्जे त्वा वायवस्थ देवो वः सविता प्रार्प्पयतु श्रेष्ठतमाय
कर्मणऽआप्यायध्वमघ्न्याऽइन्द्राय भागं प्रजावतीरनमीवाऽअयक्ष्मा मावस्ते नऽईशत माघशᳩसो
ह्रुवाऽअस्मिन्गोपतौ स्यात बह्वीर्यजमानस्य पशून्पाहि ॥ १ ॥
अथवा
ॐ स॒मिधा॒ग्निन्दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिम् । आस्मिन्हव्या जुहोतन ॥
ॐ वसोः᳥ पवित्रम् इति स्वल्पारम्भं कारयित्वा अध्यायादीन्प्रब्रूयात् । ॐ कृष्णोसि.॥२॥
ॐ समिधाग्निम्.॥३॥
ॐ एदम्.॥४॥
ॐ अग्नेस्तनूः᳥ ॥५॥
ॐ देवस्य त्वा.॥६॥
ॐ वाचस्प्पतये.॥७॥
ॐ उपयामगृहीतोसि.॥८॥
ॐ देवसवितः᳥ ॥९॥
ॐ अपोदेवाः᳥ ॥१०॥
ॐ युञ्जानः᳥ प्रथमम् ॥११॥
ॐ दृशानोरुक्क्मः᳥.॥१२॥
ॐ मयि गृह्णामि.॥१३॥
ॐ ह्रुवक्षितिर्ह्रुवयोनिः᳥ ॥१४॥
ॐ अग्ग्ने जातान्.॥१५॥
ॐ नमस्ते.॥१६॥
ॐ अश्मन्नूर्ज्जम्.॥१७॥
ॐ वाजश्च्च.॥१८॥
ॐ स्वाद्वीन्त्वा.॥१९॥
ॐ क्षत्रस्य योनिः᳥ ॥२०॥
ॐ इमम्मे.॥२१ ॥
ॐ तेजोसि.॥२२॥
ॐ हिरण्यगर्ब्भः᳥ सम्.॥२३॥
ॐ अश्श्वस्तूपरः ॥२४॥
ॐ शादन्दद्भिः ॥२५॥
ॐ अग्निश्च.॥२६॥
ॐ समास्त्वा.॥२७॥
ॐ होता यक्षत् ॥२८॥
ॐ समिद्धोऽअञ्जन्.॥२९॥
ॐ देव सवितः ॥३०॥
ॐ सहस्रशीर्षा पुरुषः ॥३१॥
ॐ तदेव.॥३२॥
ॐ अस्याजरासः ॥३३॥
ॐ यज्जाग्रतः ॥३४॥
ॐ अपेतः ॥३५॥
(जलस्पर्शः विष्णोर्वा स्मरणम् ।) ॐ ऋचंवाचम् ॥३६॥
ॐ देवस्य त्वा ॥ ३७ ॥
ॐ देवस्य त्वा.॥३८॥
ॐ स्वाहा प्राणेभ्यः..॥३९॥
ॐ ईशावास्यमिदᳩसर्वं यत्किञ्च जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥
ॐ हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । योसावादित्ये पुरुषः सोसावहम् । ॐ खम्ब्रह्म ॥४०॥
व्रतमुपैष्यन्नन्तरेणाहवनीयञ्च गार्हपत्यञ्च प्राङ्तिष्ठन्नपऽउपस्पृशति तद्द्यदपऽउपस्पृशत्यमेध्यो वै पुरुषो यदनृतं वदति तेन पूतिरन्तरतो मेद्ध्या वाऽआपो मेद्ध्यो भूत्वा व्रतमुपायानीति पवित्रं वाऽआपः पवित्रपूतो व्रतमुपायनीति तस्म्माद्वाऽआपऽउपस्पृशति सोग्ग्निमेवाभीक्षमाणो व्व्रतमुपैति ॥१॥
ॐ प्राश्नीपुत्रादासुरिवासिनः प्प्राश्नीपुत्रऽआसुरायणादासुरायण आसुरेरासुरिर्याज्ञवल्क्या– द्याज्ञवल्क्यऽउद्दालकादुद्दालकोऽरुणादरुणऽउपवेशेरुपवेशिः कुश्रेः कुश्रिर्वाजश्रवसो वाजश्रवा जिह्वावतो वाद्ध्योगाज्जिह्वावान्वाध्योगोऽसिता द्वार्षगणादसितो वार्षगणो हरितात्कश्यपाद्धरितः कश्यपः शिल्पात्कश्यपाच्छिल्पः कश्यपः कश्यपान्नैर्ह्रुवेः कश्यपो नैर्ह्रुविर्वाचो वागम्भिण्याऽअम्भिण्यादित्यादा– दित्यानीमानि शुक्लानि यजूᳩषि वाजसनेयेन याज्ञवल्क्येनाख्यायन्ते ॥२॥
इत्यन्तं यजुर्वेदारम्भं परिसमापयेत् । अथ ऋग्वेदादि मन्त्रस्य मधुच्छन्दा ऋषिर्गायत्रीछन्दोऽग्निर्द्देवता स्वाध्याये विनियोगः ।
— यहाँसम्म यजुर्वेदको आरम्भ सिध्याउनुपर्छ । अब ऋग्वेदको पहिलो मन्त्रको —
ॐ अग्निमीडे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम् ॥
इति ऋग्वेदारम्भः । अथ सामवेदादिमन्त्रस्य गौतमऋषिर्गायत्रीछन्दोग्निर्द्देवता स्वाध्याये विनियोगः ।
— यति नै ऋग्वेदको आरम्भ । अब सामवेदको पहिलो मन्त्रको —
ॐ अग्नऽआयाहि वीतये गृणानो हव्यदातये । निहोता सत्सि बर्हिषि ।
इति सामवेदारम्भः । शन्नोदेवीरिति दध्यङ्ङाथर्वण ऋषिर्गायत्रीछन्दोग्निर्द्देवता स्वाध्याये विनियोगः ।
— यति नै सामवेदको आरम्भ ।
ॐ शन्नोदेवीरभीष्टयऽआपो भवन्तु पीतये । शं योरभिस्रवन्तु नः ।
इत्यथर्ववेदारम्भः । पुनः पूर्ववत् प्रणवमहाव्याहृतिपूर्विकां गायत्रीं त्रिरुक्त्वा
— यति नै अथर्ववेदको आरम्भ । फेरि पहिलेजस्तै प्रणव र महाव्याहृतिसहितको गायत्री तीन पटक भनेर
“ॐ विरामोऽस्तु”
इति वदन्तं
गुरुं शिष्यः पादोपसङ्ग्रहणपूर्वकं प्रणम्य विरमेत् ।
शिष्यले गुरुको पाद-ग्रहणसहित प्रणाम गरी विश्राम गर्नुपर्छ ।
(ष) दक्षिणादानम्
अथ दक्षिणादानार्थं दक्षिणासङ्कल्पं कुर्यात् । तत्र सङ्कल्पः अद्येहामुकोहम् अमुकशर्म्मणो वटोः वेदारम्भहोमकर्मणः वेदारम्भकर्मणश्च साङ्गतासिद्ध्यर्थं साद्गुण्यार्थं च इदं सुवर्णमग्निदैवतं वररूपेणाचार्याय तुभ्यं सम्प्रददे इति दद्यात् । आचार्यश्चाशिषं दद्यात् ॥
अधीतानिराकरणमन्त्रान् पठेत् ।
अथातोधीत्याधीत्यानिराकरणं प्रतीकम्मे विचक्षणं जिह्वा मे मधुयद्वचः कर्णाभ्यां भूरिशुश्रुवे मा त्वा हार्षिच्छ्रुतम्मयि । ॐ
ब्रह्मणः प्रवचनमसि ब्रह्मणः प्रतिष्ठानमसि ब्रह्मकोशोसि सनिरसि शान्तिरस्यनिराकरणमसि । ब्रह्मकोशम्मे विश वाचा
त्वा पिदधामि तिष्ठ प्रतिस्वरकरणदन्त्यौष्ठ्यकण्ठ्यौरसमेधा माधुर्य ग्रहणधारणोच्चारणशक्तिर्म्मयि भवत्वाप्यायन्तु मेऽङ्
गानि वाक्प्राणश्चक्षुः श्रोत्रं यशोबलं यन्मे श्रुतमधीतं तन्मे मनसि तिष्ठतु तिष्ठतु ॐ इति ।
अथाचारात् अस्मिन्नवसरे
अब आचारअनुसार यस अवसरमा
॥ इति वेदारम्भविधिः ॥
॥ यति नै वेदारम्भको विधि ॥
–
वटुं पाठार्थं वाराणसीं प्रति प्रस्थापयन्ति अथवा देवादीनां दर्शनार्थं प्रस्थापयन्ति । वेदानां ग्रहणे सूत्रम्
बटुकलाई पढ्नका लागि वाराणसीतिर पठाउँछन्, अथवा देवता आदिको दर्शनका लागि पठाउँछन् । वेद ग्रहणमा सूत्र
अष्टचत्वारिᳩशद्वर्षाणि वेदब्रह्मचर्य चरेत् द्वादश द्वादश वा प्रतिवेदं यावद्ग्रहणं वेति ।
आचार्येणाहूतोऽधीयीत, शयानं चेदासीनः, आसीनं चेत्तिष्ठन्, तिष्ठन्तं चेदभिधावन्, अभिधावन्तं चेदभिक्रामन्, गुरुमेवं वर्त्तमानो ब्रह्मचारी ब्रह्मभूयाय कल्पते इति ।