तीर्थ श्राद्ध
विषयसूची — २० खण्ड
- तीर्थ श्राद्धविधि
- तीर्थश्राद्धे विशेषः
- ॥ इति तीर्थश्राद्धविधिः ॥
- तीर्थ श्राद्ध
- १. तत्रादौ कर्मपात्रनिर्माणम्
- २. प्रार्थना
- ३. प्रतिज्ञासङ्कल्पः
- ४. वेदीनिर्माणम्
- ५. आसनम्
- ६. अवनेजनम्
- ७. पिण्डदानम्
- ८. प्रत्यवनेजनम्
- ९. पिण्डपूजनम्
- १०. तर्पणम्
- ११. विष्णोः स्मरणम्
- १२. सूर्यायायदानम्
- १३. दक्षिणादानम्
- १४. विसर्जनम्
- १५. मन्त्रपाठः
- ॥ इति तीर्थश्राद्धविधिः ॥
तीर्थ श्राद्धविधि
तीर्थ श्राद्धमा बत्ती, कुशेबाहुन, सिधा दिन पर्दैन। जस-जसको पिण्ड हो उसकै पिण्डमाथि तर्पण दिनुपर्छ।
तीर्थको चलन र उपलब्ध पुरोहितको सल्लाह अनुसार तीर्थ श्राद्ध गर्न सकिन्छ।
अत्र स्मृतिः -
आसनं पिण्डदानं च पुनः प्रत्यवनेजनम् ।
दक्षिणा चान्नसङ्कल्पः सर्वतीर्थेष्वयं विधिः ॥
गोग्रासम् -
सुरभिर्वैष्णवी माता नित्यं विष्णुपदे स्थिता ।
गोग्रासं च मया दत्तं त्वं गृहाणानुकम्पया ॥ इति गोग्रासम् ।
श्वानबलिः
द्वौ श्वानौ श्यामशबलौ वैवस्वतकुलोद्भवौ ।
ताभ्यामन्नं प्रयच्छामि स्यातामेतावहिंसकौ ॥ इति श्वानबलिः ॥
काकबलिः
काकोऽसि यमदूतोऽसि वायसोऽसि महाबल ।
तुभ्यं बलिं प्रदास्यामि गृहाण यमकिङ्कर ॥ इति काकबलिः ॥
ब्राह्मणपादप्रक्षालनम् -
यत्फलं कपिलादाने कार्तिक्यां ज्येष्ठपुष्करे ।
तत्फलं पाण्डवश्रेष्ठ विप्राणां पादशौचने ॥
इत्यनेन विप्रदक्षिणपादप्रक्षालनम् ।
विप्रपादोदकं पीत्वा यावत्तिष्ठति मेदिनी ।
तावत्पुष्करतीर्थेऽपि पिबन्ति पितरो जलम् ॥ इत्यनेन वामपादप्रक्षालनम् ।
तिलककरणम् -
चन्दनं वन्द्यते नित्यं पवित्रं पापनाशनम् ।
आपदो हरते नित्यं लक्ष्मीर्वसतु सर्वदा ॥ इत्यनेन तिलककरणम् ।
तीर्थश्राद्धे विशेषः
हेमाद्रौ -
अर्घमावाहनं चैव द्विजाङ्गुष्ठनिवेशनम् ॥
तृप्तिप्रश्नं च विकिरं तीर्थश्राद्धे विवर्जयेत् ॥
नाग्नौकरणं न नेतारं न च बलिर्वैश्वदेवता । इति पाद्ये० ।
तीर्थश्राद्धं प्रकुर्वीत पक्वान्नेन विशेषतः ।
आमान्नेन हिरण्येन कन्दमूलैः फलैरपि ॥
॥ इति तीर्थश्राद्धविधिः ॥
तीर्थ श्राद्ध
१. तत्रादौ कर्मपात्रनिर्माणम्
हस्तौ पादौ प्रक्षाल्य आचमनं कृत्वा ॐ यद्देवादेवबहेडनम् इति कण्डिकात्रयेण कर्मपात्रं विधाय कुशत्रयसहितं कर्मपात्रोदकमादाय श्राद्धीयवस्तूनि आत्मानमपि सिञ्चेत् -
ॐ अपवित्रः पवित्रो वा सर्वावस्थाङ्गतोऽपि वा ।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥ ॐ पुण्डरीकाक्षः पुनातु-३
२. प्रार्थना
करौ सम्पुटीकृत्य विष्णुं मनसा ध्यायन् पूर्वाभिमुखः प्रार्थयेत् -
ॐ नमो नमस्ते गोविन्द पुराणपुरुषोत्तम ।
इदं श्राद्धं हृषीकेश रक्षतां सर्वतो दिशः ॥
३. प्रतिज्ञासङ्कल्पः
ततः तीर्थश्राद्धनिमित्तं सङ्कल्पं कुर्यात् -
ॐ तत्सदिति अद्येह (अमुक) मासे (अमुक) पक्षे (अमुक) तिथौ (अमुक) वासरे (अमुक) तीर्थे मम आत्मनः समस्तपितृणां समुद्धरणार्थं मातृपितृगुरुस्वस्रादिपितृणाम् अक्षय्यतृप्तिहेतोः समस्ततीर्थश्राद्धजन्यफलप्राप्त्यर्थम् (अमुक) तीर्थे तीर्थश्राद्धं पिण्डदानं चाहं करिष्ये ।
४. वेदीनिर्माणम्
अपसव्यं विधाय दक्षिणाभिमुखः प्राचीनावीती पातितवामजानुर्दक्षिणप्लवां वेदीं निर्माय पञ्चगव्येनाभिषिच्य परितस्तिलगौरसर्षपपुष्पचन्दनानि विकिरेत्।
५. आसनम्
वेद्यां मोटकरूपाणि आसनानि प्रत्येकं स्थापयेदनेन मन्त्रेण -
ॐ अयोध्या मथुरा माया काशी काञ्ची अवन्तिका ।
पुरी द्वारावती चैव सप्तैता मोक्षदायकाः ॥
ॐ कव्यवाडनलः सोमो यमश्चैवार्यमा तथा ।
अग्निष्वात्ता बर्हिषदः सोमपाः पितरस्तथा ॥ इति
६. अवनेजनम्
आसनोपरि तिलजलपुष्पगन्धादीनि पात्रे कृत्वा कुशादिकमादाय
ॐ अद्येह (अमुक) सगोत्राणां मम पितृ-पितामह-प्रपितामहानाम् (अमुकामुकामुक) शर्मणां सपत्नीकानां तथा (अमुक) सगोत्राणाम् अस्मन्मातामह-प्रमातामह-वृद्धप्रमातामहानाम् (अमुकामुकामुक) शर्मणां सपत्नीकानां यथायथागोत्राणामन्येषां च पितृणाम् आसनोपरि अवनेजनमहं सम्प्रददे ॥
इत्यनेनाऽऽसनोपरि पात्रस्थं जलमर्धं दद्यात्, अर्धं जलम् अवशेषयेत् ।
७. पिण्डदानम्
पिण्डमादाय:-
ॐ अद्येह (अमुक) सगोत्रो अस्मत्पिता (अमुक) नामा तस्य अक्षय्यतृप्त्यर्थमिदं हविष्यान्नमयम् अमृतरूपं तिलमधुजलप्रोक्षितं पिण्डं तस्मै स्वधा ॥
ॐ अद्येह (अमुक) सगोत्रो अस्मत्पितामहः (अमुक) नामा तस्य अक्षय्यतृप्त्यर्थमिदं हविष्यान्नमयम् अमृतरूपं तिलमधुजलप्रोक्षितं पिण्डं तस्मै स्वधा ॥
ॐ अद्येह (अमुक) सगोत्रो अस्मत्प्रपितामहः (अमुक) नामा तस्य अक्षय्यतृप्त्यर्थमिदं हविष्यान्नमयम् अमृतरूपं तिलमधुजलप्रोक्षितं पिण्डं तस्मै स्वधा ॥
ॐ अद्येह (अमुक) सगोत्रा अस्मन्माता (अमुक) नाम्नी देवी तस्या अक्षय्यतृप्त्यर्थमिदं हविष्यान्नमयम् अमृतरूपं तिलमधुजलप्रोक्षितं पिण्डं तस्यै स्वधा ॥
ॐ अद्येह (अमुक) सगोत्रा अस्मत्पितामही (अमुक) नाम्नी देवी तस्या अक्षय्यतृप्त्यर्थमिदं हविष्यान्नमयम् अमृतरूपं तिलमधुजलप्रोक्षितं पिण्डं तस्यै स्वधा ॥
ॐ अद्येह (अमुक) सगोत्रा अस्मत्प्रपितामही (अमुक) नाम्नी देवी तस्या अक्षय्यतृप्त्यर्थमिदं हविष्यान्नमयम् अमृतरूपं तिलमधुजलप्रोक्षितं पिण्डं तस्यै स्वधा ॥
ॐ अद्येह (अमुक) सगोत्रो अस्मन्मातामहः (अमुक) नामा तस्य अक्षय्यतृप्त्यर्थमिदं हविष्यान्नमयम् अमृतरूपं तिलमधुजलप्रोक्षितं पिण्डं तस्मै स्वधा॥
ॐ अद्येह (अमुक) सगोत्रो अस्मत्प्रमातामहः (अमुक) नामा तस्य अक्षय्यतृप्त्यर्थमिदं हविष्यान्नमयम् अमृतरूपं तिलमधुजलप्रोक्षितं पिण्डं तस्मै स्वधा॥
ॐ अद्येह (अमुक) सगोत्रो अस्मद्वृद्धप्रमातामहः (अमुक) नामा तस्य अक्षय्यतृप्त्यर्थमिदं हविष्यान्नमयम् अमृतरूपं तिलमधुजलप्रोक्षितं पिण्डं तस्मै स्वधा ॥
ॐ अद्येह (अमुक) सगोत्रा अस्मन्मातामही (अमुक) नाम्नी देवी तस्या अक्षय्यतृप्त्यर्थमिदं हविष्यान्नमयम् अमृतरूपं तिलमधुजलप्रोक्षितं पिण्डं तस्यै स्वधा ॥
ॐ अद्येह (अमुक) सगोत्रा अस्मत्प्रमातामही (अमुक) नाम्नी देवी तस्या अक्षय्यतृप्त्यर्थमिदं हविष्यान्नमयम् अमृतरूपं तिलमधुजलप्रोक्षितं पिण्डं तस्यै स्वधा ॥
ॐ अद्येह (अमुक) सगोत्रा अस्मद्वृद्धप्रमातामही (अमुक) नाम्नी देवी तस्या अक्षय्यतृप्त्यर्थमिदं हविष्यान्नमयम् अमृतरूपं तिलमधुजलप्रोक्षितं पिण्डं तस्यै स्वधा ॥
एवं प्रकारेण सपत्नजननी-पत्नीपुत्रकन्यापितृव्य-मातुल-भ्रातृ-पितृस्वस्-मात्रस्वस्रात्मभगिनी-पितृव्यपुत्र जामातृभागिनेयश्वशुर-श्वश्रूपाध्यायाचार्य-गुरु-मित्र-शिष्याणामेतेषां पुरुषविषये सपत्नीकानां स्त्रीविषये सभर्तृकसापत्यानां नाम गोत्रोच्चारणपूर्वकं स्वरूपोच्चारणं कृत्वा पिण्डान् दद्यात् ॥
ॐ आब्रह्मणो ये पितृवंशजाता मातुस्तथा वंशभवा मदीयाः ।
वंशद्वये ये मम दासभूता भृत्यास्तथा वाऽऽश्रितसेवकाश्च ॥
मित्राणि शिष्याः पशवश्च वृक्षा दृष्टाश्च स्पृष्टाश्च कृतोपकाराः ।
जन्मान्तरे ये मम सङ्गताश्च तेभ्यः स्वधा पिण्डमहं ददामि ॥
ये केचित् प्रेतरूपेण वर्तन्ते पितरो मम ।
ते सर्वे तृप्तिमायान्तु पिण्डदानेन शाश्वतीम् ॥
ये बान्धवाऽबान्धवा वा येऽन्यजन्मनि बान्धवाः ।
तेभ्यः पिण्डो मया दत्तः अक्षय्यमुपतिष्ठतु ॥
पितृवंशे मृता ये च मातृवंशे तथैव च ।
गुरुश्वशुरबन्धूनां ये चाऽन्ये बान्धवा मृताः ॥
ये मे कुले लुप्तपिण्डाः पुत्रदारविवर्जिताः ।
तेभ्यः पिण्डो मया दत्तः अक्षय्यमुपतिष्ठतु ॥
८. प्रत्यवनेजनम्
ॐ अद्येह (अमुक) सगोत्राणां मम पितृ-पितामह-प्रपितामहानाम् (अमुकामुकामुक) शर्मणां तथा मातृ-पितामही-प्रपितामहीनाम् (अमुकामुकामुक) देवीनां पिण्डोपरि प्रत्यवनेजनं सम्प्रददे इति । एवं मातामह-प्रमातामह-वृद्धप्रमातामहानां सपत्नीकानां पिण्डोपरि प्रत्यवनेजनं दद्यात् । इत्यनेन पिण्डोपरि अर्धशेषजलं दद्यात् ।
९. पिण्डपूजनम्
गन्धपुष्पधूपदीपनैवेद्यताम्बूलपूगीफलैलालवङ्गयज्ञोपवीतवस्त्रतुलसीदलादिकं दत्त्वा पूजयेत् ।
१०. तर्पणम्
जलेन नामगोत्रोच्चारणं कृत्वा तर्पणं कुर्यात् ।
ततः सव्यं कृत्वाऽऽचामेत् ।
११. विष्णोः स्मरणम्
ॐ प्रमादात् कुर्वतां कर्म प्रच्यवेताध्वरेषु च ।
स्मरणादेव तद्विष्णोः सम्पूर्णं स्यादिति श्रुतिः ॥
इति विष्णुस्मरणं कुर्यात् ।
१२. सूर्यायायदानम्
ॐ एहि सूर्य सहस्रांशो तेजोराशे जगत्पते ।
अनुकम्पय मां भक्त्या गृहाणार्घ्यं दिवाकर ॥
इति सूर्याय अर्घ्य दत्त्वा नमस्कारं च कृत्वा यथाशक्त्या ब्राह्मणपूजनं भोजनदक्षिणादानं च कुर्यात् ।
१३. दक्षिणादानम्
ॐ अद्यकृतैतत् तीर्थश्राद्धसाङ्गतासिद्ध्यर्थं मम समस्तपितृणाम् अक्षय्यतृप्त्यर्थम् आत्मना सह सर्वेषामुद्धरणाय न्यूनातिरिक्तदोषपरिहारार्थम् इदं रजतं चन्द्रदैवतं यथानामगोत्राय ब्राह्मणाय दक्षिणात्वेन तुभ्यमहं सम्प्रददे । ॐ स्वस्तीति प्रतिवचनम् ।
१४. विसर्जनम्
ॐ नमो वः पितरो० । ततोऽभिगम्यतामिति विसर्जनम् । पिण्डानाघ्रायोत्थाय जले गवे वा दद्यात्। शेषं कुशादिकं जले निक्षिपेत् ।
१५. मन्त्रपाठः
हरिः ॐ शतमिन्नु शरदोऽअन्ति देवा यत्रा नश्चक्रा जरसन्तनूनाम् ।
पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥१॥
अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः ।
विश्वेदेवाऽअदितिः पञ्चजनाऽअदितिर्जातमदितिर्जनित्वम् ॥२ ॥
स्वादुषಆसदः पितरो वयोधाः कृच्छ्रेश्रितः शक्तीवन्तो गभीराः ।
चित्रसेनाऽइषुबलाऽअमृध्राः सतोवीराऽउरवो व्रातसाहाः ॥३॥
ब्राह्मणासः पितरः सोम्यासः शिवे नो द्यावापृथिवीऽअनेहसा ।
पूषा नः पातु दुरितादृतावृधो रक्षा माकिर्नोऽअघशಆसऽईशत ॥४॥
पितृभ्यः स्वधायिभ्यः स्वधा नमः पितामहेभ्यः स्वधायिभ्यः स्वधा नमः प्रपितामहेभ्यः स्वधायिभ्यः स्वधा नमः ॥
अक्षन्पितरोऽमीमदन्त पितरोऽतीतृपन्त पितरः पितरः शुन्धध्वम् ॥५॥
पुनन्तु मा पितरः सोम्यासः पुनन्तु मा पितामहाः पुनन्तु प्रपितामहाः ।
पवित्रेण शतायुषा पुनन्तु मा पितामहाः पुनन्तु प्रपितामहाः ।
पवित्रेण शतायुषा व्विश्वमायुर्व्यश्नवै ॥६॥
॥ इति तीर्थश्राद्धविधिः ॥
सम्बन्धित पाठ र तयारी
स्रोत र सम्पादन
सामग्री व्यवस्थापन: Karmakanda Admin
स्रोत: उपलब्ध गराइएको कर्मकाण्ड मूलपाठ संग्रह; डिजिटल संकलनको स्रोत विवरण सुरक्षित राखिएको छ।

