आभ्युदयिक (नान्दी) श्राद्ध
विषयसूची — २३ खण्ड
- आभ्युदयिकश्राद्धम् (नान्दी श्राद्ध)
- तत्र विशेषः
- अन्यच्च
- सङ्कल्पवाक्ये
- अथ प्रयोगः
- (क) प्रारम्भिक शुद्धि
- (क) प्रतिज्ञासङ्कल्पः
- (ख) प्रार्थना
- (ग) दिग्बन्धनम्
- (घ) नीविबन्धनम्
- (ङ) आसनम्
- (च) अर्पणम्
- (छ) भूस्वामी
- (ज) अन्नसङ्कल्पः
- (झ) प्रार्थना
- (ञ) विकिरदानम्
- (ट) अक्षयोदकम्
- (ठ) आशिषः प्रार्थना
- (ड) दक्षिणादानम्
- (ढ) नमस्कारः
- (ण) प्रार्थना
- (त) कर्मसमर्पणम्
- समाप्तम्
आभ्युदयिकश्राद्धम् (नान्दी श्राद्ध)
तत्र विशेषः
आवाहनं स्वधाशब्दः पिण्डाग्नौकरणं तथा ।
विकरं पिण्डदानञ्च साङ्कल्पे षड् विवर्जयेत्॥
साङ्कल्पं तु यदा कुर्यान्न कुर्यात्पात्रपूरणम्॥ ॥ इति मात्स्ये॥
उत्सवानन्दसन्तानयज्ञोद्वाहादिमङ्गले।
मातरः प्रथमं पूज्या पितरस्तदनन्तरम्॥
ततो मातामहानां च विश्वेदेवास्तथैव च ।
अन्यच्च
पूर्वाह्णे दैविकं कार्यमपराह्णेतु पैतृकम्।
एकोद्दिष्टन्तु मध्याह्ने प्रातर्वृद्धिनिमित्तकम्॥
अत्राभ्युदयिके युग्मा ब्राह्मणाः ऋजवो ।
दर्भाः प्राङ्मुखेभ्यः उदङ्मुखः उदङ्मुखेभ्यो वा प्राङ्मुखः ॥
सङ्कल्पवाक्ये
निमन्त्रणे प्रतिज्ञायामक्षयासनयोस्तथा ।
एषु षष्ठी प्रयोक्तव्या श्राद्धप्रकरणे बुधैः ॥
अक्षयासनयोः षष्ठी द्वितीयावाहने तथा ।
अन्नदाने चतुर्थीस्याच्छेषाः सम्बुद्धयः स्मृताः ॥
अथ प्रयोगः
(क) प्रारम्भिक शुद्धि
ततः कर्ता प्रक्षालितपाणिपादावाचान्तः प्राङ्मुखः उदङ्मुखा वा शुद्धासन उपविश्य दीपं प्रज्वाल्य संपज्य च कर्मपात्रं कृत्वा:
ॐ अपवित्रः पवित्रो वा... इत्यादि मन्त्रेण श्राद्धदेशं द्रव्याण्यात्मानं च सिञ्चेत् ।
(क) प्रतिज्ञासङ्कल्पः
ॐ अद्य ______ गोत्राणां मातृपितामहीप्रपितामहीनाम् ______ ______ ______ देवीनां नान्दीमुखीनां तथा ______ गोत्राणां पितृपितामहप्रपितामहानाम् ______ ______ ______ शर्मणां नान्दीमुखानां तथा ______ गोत्राणां मातामहप्रमातामहवृद्धप्रमातामहानाम् ______ ______ ______ शर्मणां सपत्नीकानां नान्दीमुखानां वसुसत्यसंज्ञकविश्वेदेवपूर्वकाणाम् ______ कर्माङ्गतया आभ्युदयिकश्राद्धमेभिर्द्रव्यैरहं करिष्ये ।
इति सङ्कल्पं कृत्वा त्रिर्गायत्रीं जपेत् ।
(ख) प्रार्थना
ॐ देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ।
नमः स्वाहायै स्वधायै नित्यमेव नमो नमः ॥
॥ इति त्रिर्जपेत् ॥
(ग) दिग्बन्धनम्
यवकुशानादाय:
ॐ अग्निष्वात्ताः पितृगणाः प्राचीं रक्षन्तु मे दिशम् ।
अपहताऽअसुरा रक्षाಆसि व्वेदिषदः ॥
ॐ तथा बर्हिषदः पान्तु याम्यां ये पितरः स्थिताः ।
अपहताऽअसुरा रक्षाಆसि व्वेदिषदः ॥
ॐ प्रतीचीमाज्यपास्तद्वत् । अपहताऽअसुरारक्षाಆसि व्वेदिषदः ।
ॐ उदीचीमपि सोमपाः । अपहताऽअसुरारक्षाಆसि व्वेदिषदः ।
ॐ ऊर्ध्वतस्त्वर्यमा रक्षेत्कव्यवाडनलोऽप्यधः ।
अपहताऽअसुरारक्षाಆसि व्वेदिषदः ॥
ॐ रक्षोभूतपिशाचेभ्यस्तथैवासुरदोषतः ।
सर्वतश्चाधिपस्तेषां यमो रक्षां करोतु मे ॥
इति पूर्वादिदिक्षु यवान् विकिरेत् ।
(घ) नीविबन्धनम्
ॐ त्वमग्ने द्युभिस्त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमश्मनस्परि ।
त्वं व्वनेभ्यस्त्वमोषधीभ्यस्त्वन्नृणान्नृपते जायसे शुचिः ॥
इति मन्त्रेण दक्षिणकट्यां नीवीमारोपयेत् ।
(ङ) आसनम्
ॐ अद्येह ______ सगोत्राणां मातृपितामहीप्रपितामहीनाम् ______ ______ ______ देवीनां नान्दीमुखीनां तथा ______ सगोत्राणां पितृपितामहप्रपितामहानाम् ______ ______ ______ शर्मणां नान्दीमुखानां तथा ______ सगोत्राणां मातामह–प्रमातामह–वृद्धप्रमातामहानाम् ______ ______ ______ शर्मणां सपत्नीकानां नान्दीमुखानामाभ्युदयिकश्राद्धे श्राद्धसम्बन्धिनां वसुसत्यसंज्ञकविश्वेषां देवानामिदमासनं वो नमः ॥
ॐ अद्येह ______ सगोत्राणां मातृपितामहीप्रपितामहीनाम् ______ ______ ______ देवीनां नान्दीमुखीनाम् आभ्युदयिकश्राद्धे इदमासनं (इमान्यासनानि वा) युष्मभ्यं नमः ।
(एकवचने तु ते नमः)
ॐ अद्येह ______ सगोत्राणां पितृपितामहप्रपितामहानाम् ______ ______ ______ शर्मणां नान्दीमुखानामाभ्युदयिकश्राद्धे इदमासनं युष्मभ्यं नमः ।
ॐ अद्येह ______ सगोत्राणां मातामहप्रमातामहवृद्धप्रमातामहानाम् ______ ______ ______ शर्मणां सपत्नीकानामाभ्युदयिकश्राद्धे इदमासनं युष्मभ्यं नमः ।
ऋज्वमूलकुशरूपमासनं सर्वेभ्यो दद्यात्। ततो गन्धाक्षतपुष्पताम्बूलवस्त्रादिभिः समभ्यर्च्य धूपदीपनैवेद्यं च कारयेत् ।
(च) अर्पणम्
यवकुशजलान्यादाय:
ॐ अद्येह ______ सगोत्राणां मातृपितामहीप्रपितामहीनाम् ______ ______ ______ देवीनां नान्दीमुखीनां तथा ______ सगोत्राणां पितृपितामहप्रपितामहानाम् ______ ______ ______ शर्मणां नान्दीमुखानां तथा ______ सगोत्राणां मातामहप्रमातामहवृद्धप्रमातामहानाम् ______ ______ ______ शर्मणां सपत्नीकानां नान्दीमुखानां श्राद्धसम्बन्धिनो वसुसत्यसंज्ञकविश्वेदेवा एतान्यर्चनविधौ गन्धपुष्पाक्षतधूपदीपनैवेद्यताम्बूलद्रव्ययज्ञोपवीतवस्त्राणि वो नमः ॥
पुनश्च:
ॐ अद्येह ______ सगोत्रा मातृपितामहीप्रपितामह्यः ______ ______ ______ देव्यः नान्दीमुख्य आभ्युदयिकश्राद्धे एतान्यर्चनविधौ गन्धपुष्पाक्षतधूपदीपनैवेद्यताम्बूलयज्ञोपवीतद्रव्यवासांसि युष्मभ्यं नमः ।
पुनः यवकुशजलान्यादाय:
ॐ अद्येह ______ सगोत्राः पितृपितामहप्रपितामहाः ______ ______ ______ शर्माणः नान्दीमुखाभ्युदयिकश्राद्धे एतान्यर्चनविधौ गन्धपुष्पाक्षतधूपदीपनैवेद्यताम्बूलयज्ञोपवीतद्रव्यवासांसि युष्मभ्यं नमः ।
पुनश्च:
ॐ अद्येह ______ सगोत्रा मातामहप्रमातामहवृद्धप्रमातामहाः ______ ______ ______ शर्माणः सपत्नीकाः नान्दीमुखाभ्युदयिकश्राद्धे एतान्यर्चनविधौ गन्धपुष्पाक्षतधूपदीपनैवेद्यताम्बूलयज्ञोपवीतद्रव्यवासांसि युष्मभ्यं नमः ।
(छ) भूस्वामी
यवघृतमधुजलयुतमन्नं कुशादिकमादाय:
इदमामान्नं सजलमेतद्भूस्वामिपितृभ्यो नमः ।
(ज) अन्नसङ्कल्पः
तत्र प्रथमं विश्वेदेवानामुत्तानाभ्यां पाणिभ्यां देवपात्रमालभ्य:
ॐ पृथिवि ते पात्रं द्यौरपिधानं ब्राह्मणस्य मुखेऽअमृतेऽअमृतं जुहोमि स्वाहा ॥
ॐ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् ।
समूढमस्य पाಆसुरे ॥ ॐ कृष्ण कव्यमिदं रक्ष मदीयम् ॥
ॐ इदमन्नम् । ॐ इमा आपः । ॐ इदमाज्यम् । ॐ इदं हविः । एतान्युपकरणानीति ।
दक्षिणाङ्गुष्ठमारोप्य– "ॐ ध्वोसिध्वयास्मद्वेषोध्वयारातीः" इति यवान् विकीर्य कुशादिकमादाय–
ॐ अद्येह ______ सगोत्राणां मातृपितामहीप्रपितामहीनाम् ______ ______ ______ देवीनां नान्दीमुखीनां तथा ______ सगोत्राणां पितृपितामहप्रपितामहानाम् ______ ______ ______ शर्मणां नान्दीमुखानां तथा ______ सगोत्राणां मातामहप्रमातामहवृद्धप्रमातामहानाम् ______ ______ ______ शर्मणां सपत्नीकानां नान्दीमुखानां श्राद्धसम्बन्धिभ्यो वसुसत्यसंज्ञकेभ्यो विश्वेभ्यो देवेभ्यो इदमन्नं सजलं सोपस्करं वो नमः ।
पूर्ववत् पात्रालम्भनादिकं कृत्वा:
ॐ अद्येह ______ सगोत्राभ्यः मातृपितामहीप्रपितामहीभ्यः नान्दीमुखीभ्य आभ्युदयिकश्राद्धे इदमन्नं सजलं सोपस्करं युष्मभ्यं नमः ।
(पृथक् पृथक् करणे तु – ॐ अद्येह ______ सगोत्रायै अस्मन्मात्रे ______ देव्यै नान्दीमुख्यै इति वाक्यं प्रयोजनीयम् ।)
पुनः पूर्ववत् पात्रालम्भनादिकं कृत्वा–
ॐ अद्येह ______ सगोत्रेभ्यः पितृपितामहप्रपितामहेभ्यो ______ ______ ______ शर्मभ्यो नान्दीमुखेभ्य आभ्युदयिकश्राद्धे इदमन्नं सजलं सोपस्करं युष्मभ्यं नमः ।
पूर्ववत् पात्रालम्भनादिकं कृत्वा–
ॐ अद्येह ______ सगोत्रेभ्यः मातामहप्रमातामहवृद्धप्रमातामहेभ्यः सपत्नीकेभ्यो नान्दीमुखेभ्य आभ्युदयिकश्राद्धे इदमन्नं सजलं सोपस्करं युष्मभ्यं नमः ।
गायत्रीं जप्त्वा प्रार्थयेत् ।
(झ) प्रार्थना
ॐ अन्नहीनं क्रियाहीनं विधिहीनं च यद्भवेत् ।
तत्सर्वमच्छिद्रमस्तु श्रीभास्करस्य प्रसादतः ॥
नमस्तुभ्यं विरूपाक्ष नमस्तेऽनेकचक्षुषे ।
नमः पिनाकहस्ताय वज्रहस्ताय वै नमः ॥
ॐ मधुव्वाताऽऋतायते मधु क्षरन्ति सिन्धवः ।
माध्वीर्नः सन्त्वोषधीः ॥
ॐ मधु नक्तमुतोषसो मधुमत्पार्थिवಆरजः ।
मधु द्यौरस्तु नः पिता ॥
ॐ मधुमान्नो वनस्पतिर्मधुमाँ२ऽअस्तु सूर्यः ।
माध्वीर्गावो भवन्तु नः ॥ ॐ मधु मधु मधु इति ।
ततः पुरुषसूक्तादिकं च पठेत् ।
(ञ) विकिरदानम्
(केचिन्नैव कुर्वन्ति)
ततः प्रागग्रकुशायां भूमौ कुशयवजलान्यादाय:
ॐ असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम् ।
उच्छिष्टभागधेयानां दर्भेषु विकिरासनम् ॥
कुशरूपमासनमास्तृतकुशत्रयोपरि उत्सृजेत् ।
अग्निदग्धाश्च ये जीवा येऽप्यदग्धाः कुले मम ।
भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिम् ॥
दत्तासनकुशोपरि तदन्नं विकिरेत् ।
ततः आचम्य हरिं स्मरेत् । ततः कुशदूर्वादलं गृहीत्वा भूमौ ।
ॐ सुप्रोक्षितमस्तु । ॐ शिवा आपः सन्तु । इति जलम् ।
ॐ सौमनस्यमस्तु । इति पुष्पम् ।
ॐ अक्षतं चारिष्टमस्तु । इति अक्षतानन्नपात्रेषु (ब्राह्मणकरे) निक्षिप्य ।
(ट) अक्षयोदकम्
सजलयवकुशत्रयमादाय:
ॐ अद्येह ______ सगोत्रा मातृपितामहीप्रपितामह्यो ______ ______ ______ देव्यो नान्दीमुख्यः आभ्युदयिकश्राद्धे दत्तैतदन्नपानादिभिः प्रीयन्ताम् ।
पुनः यवजलकुशान्यादाय:
ॐ अद्येह ______ सगोत्राः पितृपितामहप्रपितामहाः ______ ______ ______ शर्माणो नान्दीमुखाः आभ्युदयिकश्राद्धे दत्तैतदन्नपानादिभिः प्रीयन्ताम् ।
पुनश्च:
ॐ अद्येह ______ सगोत्राः मातामहप्रमातामहवृद्धप्रमातामहाः ______ ______ ______ शर्माणः सपत्नीकाः नान्दीमुखाः आभ्युदयिकश्राद्धे दत्तैतदन्नपानादिभिः प्रीयन्ताम् ।
ततः प्राङ्मुखोऽञ्जलिं बध्वा आशिषः प्रार्थयेत् ।
(ठ) आशिषः प्रार्थना
ॐ गोत्रन्नो वर्धताम् । ॐ वर्धताम् ।
ॐ दातारो नोऽभिवर्धन्ताम् । ॐ वर्धन्ताम् ।
ॐ वेदाः सन्ततिरेव च । ॐ सन्तु ।
ॐ श्रद्धा च नो मा व्यगमत् । ॐ मागात् ।
ॐ बहुदेयं च नोऽस्तु । ॐ अस्तु ।
ॐ अन्नं च नो बहु भवेत् । ॐ भवतु ।
ॐ अतिथींश्च लभेमहि । ॐ लभध्वम् ।
ॐ याचितारश्च नः सन्तु । ॐ सन्तु ।
ॐ मा याचिष्म कञ्चन । ॐ मा याचेथाः ।
ॐ एताः सत्या आशिषः सन्तु । ॐ सन्तु ।
ततः श्राद्धकर्ता ब्राह्मणहस्तेन तिलकं कुर्यात् ।
ॐ यं कामं कामयते सोऽस्मै कामः समृध्यताम् ।
(ड) दक्षिणादानम्
ॐ अद्येह ______ सगोत्राणां मातृपितामहीप्रपितामहीनाम् ______ ______ ______ देवीनां नान्दीमुखीनां तथा ______ सगोत्राणां पितृपितामहप्रपितामहानाम् ______ ______ ______ शर्मणां नान्दीमुखानां तथा ______ गोत्राणां मातामहप्रमातामहवृद्धप्रमातामहानां सपत्नीकानां नान्दीमुखानाम् आभ्युदयिकश्राद्धसम्बन्धिनां वसुसत्यसंज्ञकानां विश्वेषां देवानां कृतैतदाभ्युदयिकश्राद्धप्रतिष्ठार्थम् इमानि द्राक्षामलकफलमूलानि वनस्पतिदैवतानि तन्मूल्योपकल्पितं द्रव्यं विष्णुदैवतं दक्षिणात्वेन यथानामगोत्राय यथानामशर्मणे ब्राह्मणाय दातुमहमुत्सृजे ।
पुनर्दक्षिणाद्रव्यमादाय:
ॐ अद्येह ______ सगोत्राणां मातृपितामहीप्रपितामहीनाम् ______ ______ ______ देवीनां नान्दीमुखीनां कृतैतदाभ्युदयिकश्राद्धप्रतिष्ठार्थमिमानि द्राक्षामलकफलमूलानि वनस्पतिदैवतानि तन्मूल्योपकल्पितं द्रव्यं वा विष्णुदैवतं दक्षिणात्वेन यथानामगोत्राय इति पूर्ववत् ।
पुनर्दक्षिणाद्रव्यमादाय:
ॐ अद्येह ______ सगोत्राणां पितृपितामहप्रपितामहानाम् ______ ______ ______ शर्मणां नान्दीमुखानां कृतैतदाभ्युदयिकश्राद्धप्रतिष्ठार्थमिमानि द्राक्षामलकफलमूलानि वनस्पतिदैवतानि तन्मूल्योपकल्पितं द्रव्यं विष्णुदैवतं दक्षिणात्वेन यथानामगोत्राय इत्यादि पूर्ववत् ।
पुनश्च:
ॐ अद्येह ______ सगोत्राणां मातामहप्रमातामहवृद्धप्रमातामहानाम् ______ ______ ______ शर्मणां सपत्नीकानां नान्दीमुखानां कृतैतदाभ्युदयिकश्राद्धप्रतिष्ठार्थमिमानि फलमूलानि वनस्पतिदैवतानि तन्मूल्योपकल्पितं द्रव्यं वा विष्णुदैवतं दक्षिणात्वेन यथानामगोत्राय इत्यादि पूर्ववत् ।
(ढ) नमस्कारः
ॐ देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ।
नमः स्वाहायै स्वधायै नित्यमेव नमो नमः ॥
इति त्रिः पठेत् ।
ततो दीपाच्छादनं विधाय हस्तौ पादौ प्रक्षाल्य आचम्य प्रार्थयेत् ।
(ण) प्रार्थना
ॐ प्रमादात् कुर्वतां कर्म प्रच्यवेताध्वरेषु च ।
स्मरणादेव तद्विष्णोः सम्पूर्णं स्यादिति श्रुतिः ॥
आयुः प्रजां धनं विद्यां स्वर्गं मोक्षसुखानि च ।
प्रयच्छन्तु तथा राज्यं पितरः श्राद्धतर्पिताः ॥
(त) कर्मसमर्पणम्
ॐ कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पये तत् ॥
यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥
चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च ।
हूयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु ॥
ॐ यत्कृतं तत्सुकृतमस्तु यन्न कृतं तद्विष्णोः प्रसादात् ब्राह्मणवचनाच्च सर्वं परिपूर्णमस्तु ।
ॐ अस्तु परिपूर्णम् ॥
समाप्तम्
सम्बन्धित पाठ र तयारी
स्रोत र सम्पादन
सामग्री व्यवस्थापन: Karmakanda Admin
स्रोत: उपलब्ध गराइएको कर्मकाण्ड मूलपाठ संग्रह; डिजिटल संकलनको स्रोत विवरण सुरक्षित राखिएको छ।

