सीमन्तोन्नयन संस्कार
विषयसूची
गर्भाधानप्रभृतिः पञ्चमे मासे चन्द्रतारानुकूले दिवसे पूर्व दीपकलशगणेशपूजनं कृत्वा प्रधानसङ्कल्पं कुर्यात्-
(क) प्रधानसङ्कल्पः
अद्येहामुकोऽहम् अस्यां भार्यायां गर्भाभिवृद्धिपरिपब्धिपिशितप्रिया-ऽलक्ष्मीभूतराक्षगणनिरस नक्षमसकलसौभाग्यनिदानभूतलक्ष्मीसमावेशनद्वारा प्रतिगर्भ वीजगर्भसमुद्भवैनोनिबर्हणाय श्रीपरमेश्वरप्रीत्यर्थं स्त्रीसंस्काररूपं सीमन्तोन्नयनाख्यं कर्म करिष्ये ।
इति सङ्कल्प्य मातृपूजनादिकं विधाय तत्र बहिः शालायां स्थण्डिले पञ्चभूसंस्कारपूर्वकमग्निं संस्थाप्य तदीशाने कलशविधिना कलशं संस्थाप्य तत्र नवग्रहादीनावाह्य सम्पूज्य रक्षासूत्रमभिमन्त्र्य कलशे संस्थाप्य अग्नेः पश्चात्स्वदक्षिणतो गर्भिणीं स्त्रियमुपवेश्य आचार्यब्रह्मणोर्वरणं कृत्वा ब्रह्मोपवेशनादि आसादनान्ते विशेषोपकल्पनीयानि वस्तून्यासादयेत् ।
(ख) विशेषोपकल्पनीयानि वस्तूनि
आज्यस्थाली, चरुस्थाली, आज्यं, मुद्द्याः तिलाः पृथक्पृथक् मृदुपीठयुग्मम्, शलाटुग्रप्सम् (औदुम्बरफलयुग्ममपक्वमित्यर्थः) एकस्तवकविवद्धं च पवित्रलक्षणास्तिस्रो दर्भपिञ्जुल्यश्च, त्रैणी शलली, वीरतरशंकुः, शरैषिका अश्वत्थशंकुर्वा, पूर्णपात्रम्, सूत्रपूर्णलोहकीलकम् (सूत्रकर्तनसाधनमित्यर्थः), वीणागाथिनौ च ।
इति सम्भारान् सम्भृत्य पवित्रच्छेदनादिपर्यंक्षणान्तं कर्म कृत्वा चरुमधिश्रयेत् । अर्धश्रितेषु चरुषु तिलमिश्रिततण्डुलान् क्षिपेत् । एवं चरुं श्रपयित्वा चरुम् आज्यं चोद्वास्य ततो द्रव्यत्यागं कुर्यात् ।
(ग) होमसङ्कल्पः
अद्येहास्मिन् सीमन्तहोमकर्मणि आज्येन आघाराज्यभागदेवताभ्यः तिलमिश्रितमुद्गस्थालीपाकेन प्रजापतिं स्विष्टकृतं तथाज्येन भूरादिनवाहुतीर्यक्ष्ये ।
(घ) अग्नेः स्थापनं पूजनञ्च
अग्निप्रतिष्ठापनान्ते मङ्गलनामाग्ने सुप्रतिष्ठितो वरदो भव ॐ मङ्गलनामाग्नये नमः इति पाद्यादिभिः सम्पूज्य आघारावाज्यभागौ हुत्वा स्थालीपाकेनाज्यमिश्रितेन जुहोति ।
(ङ) हवनम्
ॐ प्रजापतये स्वाहा इदं प्रजापतये । ततः ॐ अग्नये स्विष्टकृते स्वाहा इदमग्नये स्विष्टकृते ।
तत आज्येन भूरादिहोमं कृत्वा संश्रवप्राशनादि पूर्णपात्रदानं होमदक्षिणां च विधाय ततोऽग्नेः पश्चाद्भर्तुर्वामतो भद्रपीठोपरि मृद्वासने स्थितायाः स्त्रियाः सीमन्तकेशे अपक्वोदुम्बरफलयुग्मेन एकगुच्छेन त्रिभिर्दर्भपिञ्जुलीभिस्त्रेण्या शलल्या शरैषिकया पूर्णलोहकीलकेन ललाटान्तरमारभ्य द्विधा करोति ।
(च) केशविनयनम्
तत्र मन्त्राः
ॐ भूर्विनयामि, ॐ भुवर्विनयामि, ॐ स्वर्विनयामि
इति त्रिर्विनयनं कृत्वा अथ उदुम्बरादिपञ्चकं पुञ्जीकृतं तस्या वेण्यामाबध्नाति
ॐ अयमूर्जावतोव्वृक्षा ऊर्जीव फलिनी भव
इति मन्त्रेण बध्नीयात् 'वेण्यां त्रिवृत्कुर्य्यात्' इत्युक्तत्वात् । अथ वीणागाथिनं प्रेषयति -
ॐ सोमं राजानं गायेथां यो वाप्यन्यो वीरतर
इति तौ प्रेषितौ वीणामादाय स्वदेशीयराज्ञोऽथवा कस्यचिदन्यस्य वीरनृपस्य चरितं गायतः सोमं राजानमन्यं युधिष्ठिरार्जुनादिकं वा गायतः ।
(छ) वीरगाथागानम्
"ॐ सोम एव नो राजेमा मानुषीः प्रजाः। अविमुक्तचक्र आसीरंस्तीरे तुभ्यमसौ ।"
इति पठेत् ।
ततो गर्भिणीसमीपे गङ्गादिनदीनां नाम गृहणीयात् ।
(ज) दक्षिणादानम्
अद्येहामुकोऽहं अस्या भार्यायाः सीमन्तोन्नयनाख्यकर्मणः साद्गुण्यार्थम् इमां दक्षिणां..... गोत्राय शर्मणे ब्राह्मणाय तुभ्यमहं सम्प्रददे ।
इति दक्षिणां दत्त्वा अभिषेकतिलकरक्षासूत्रघृतच्छायात्र्यायुषमन्त्रपाठादिकं च कारयेत् ॥
॥ इति सीमन्तोन्नयनम् ॥
सम्बन्धित पाठ र तयारी
स्रोत र सम्पादन
सामग्री व्यवस्थापन: Karmakanda Admin
स्रोत: उपलब्ध गराइएको कर्मकाण्ड संस्कार पाठसंग्रह र अभिलेखित सन्दर्भ सामग्री।

