पुंसवन संस्कार
विषयसूची
तत्र पारास्करसूत्रम् - मासे तृतीये पुंसवनं कुर्यात् । तत्र गर्भाधानप्रभृति तृतीये मासि पुंनक्षत्रे (यस्मिन्दिने पुष्यश्रवणहस्तमृगशीर्षादिनक्षत्रयोगे चन्द्रमा भवति) चन्द्रतारानुकूले गर्भिणीं संस्नाप्य तत्पतिः स्वयं च स्नात्वा उभावप्युपोषितौ अहते धौते वाससी परिधाय प्रथमं गणेशादीन् सम्पूजयेत् । तत्रादौ प्रतिज्ञासङ्कल्पं कुर्यात् ।
(क) सङ्कल्पः
अद्येह अमुकगोत्रोऽमुकोऽहं ममास्यां भार्यायां उत्पत्स्यमानस्य गर्भस्य बीजगर्भ-समुद् भवैनोनिबर्हणपुंरूपोदयप्रतिरोधिकर्मनिरसनद्वारा श्रीपरमेश्वरप्रीत्यर्थं पुंसवनाख्यं कर्म करिष्ये । तत्र च पुंसवनकर्मणः पूर्वाङ्गत्वेन मातृपूजानान्दीश्राद्धपुण्याहवाचनानि करिष्ये ।
इति सङ्कल्प्य मातृपूजादिकं विधाय अस्तमये वटवृक्षस्यावरोहान्मूलाकारान् तदभावे कुशमूलं वा उदकेन पिष्ट्वा तद्रसं गर्भिण्या दक्षिणनासिकायामासिञ्चति ।
(ख) आसिञ्चनमन्त्राः
तत्र दक्षिणनासिकासिञ्चने मन्त्रः -
ॐ हिरण्यगर्भः समवर्त्तताग्रे भूतस्य जातः पतिरेकअआसीत् । स दाधार पृथिवीन्द्यामुतेमाङ्कस्मै देवाय हविषा विधेम ।
ततो वामनासिकायाम् -
ॐ अद्भ्यः सम्भूतः पृथिव्यै रसाच्च व्विश्वकर्मणः समवर्त्तताग्रे । तस्य त्वष्टा व्विदधद्रूपमेति तन्मर्त्यस्य देवत्वमाजानमग्रे ॥
इति मन्त्राभ्यां उदरप्राप्तिक्षममासिञ्चेत् । सा यदि वीर्यवानयं पुत्रः स्यादिति कामयेत तदा उदकपूर्ण शरावम् उपस्थे धृत्वा गर्भाभिमन्त्रणं कुर्यात् ।
(ग) गर्भाभिमन्त्रणम्
तत्र मन्त्रः-
ॐ सुपर्णोसि गरुत्माँस्त्रिवृत्ते शिरो गायत्रञ्चक्षुर्वृहद्रथन्तरे पक्षौ ॥ स्तोमअआत्मा छन्दा स्यङ्गानि यजू ंषि नाम ॥ साम ते तनूर्वामदेव्यं यज्ञायज्ञियं पुच्छं धिष्ण्याः शफाः । सुपर्णोसि गरुत्मान् दिवं गच्छ स्वः पत ॥
इति मन्त्रेण गर्भाभिमन्त्रणं कृत्वा दक्षिणासङ्कल्पं कुर्यात् ।
(घ) दक्षिणासङ्कल्पः
ॐ अद्येहामुकोऽहं कृतस्यास्य पुंसवनाख्यकर्मणः साद्गुण्यार्थम् इमां दक्षिणां भोजनं च नानानामगोत्रेभ्यो ब्राह्मणेभ्यो विभज्य दातुमहमुत्सृजे । ॐ तत्सन्न मम ।
ततोऽभिषेकमन्त्रपाठादिः ।
॥ इति पुंसवनसंस्कारः ॥
सम्बन्धित पाठ र तयारी
स्रोत र सम्पादन
सामग्री व्यवस्थापन: Karmakanda Admin
स्रोत: उपलब्ध गराइएको कर्मकाण्ड संस्कार पाठसंग्रह र अभिलेखित सन्दर्भ सामग्री।

