जातकर्म संस्कार
विषयसूची
- (क) अद्भिरभ्युक्षणम् -
- (ख) मन्त्रजपः
- (ग) जातकर्म
- (घ) प्रधानसङ्कल्पः
- (ङ) मातृकापूजा
- (च) नान्दीश्राद्धम्
- (छ) स्वस्तिवाचनम् नवग्रहाणां पूजनञ्च
- (ज) मेधाजननाख्यं कर्म
- (झ) आयुष्यकरणम्
- (ञ) जाताभिमन्त्रणम्
- (ट) प्रैषवाक्यपठनम्
- (ठ) जन्मभूम्यभिमन्त्रणम्
- (ड) स्तनप्रदानम्
- (ढ) उदककुम्भस्थापनम्
- (ण) सूतिकाद्वारदेशेऽग्निस्थापनं हवनञ्च
- (त) बालग्रहादिशमनम्
- (थ) दक्षिणादानम्
- (द) नालच्छेदनम्
- ॥ इति जातकर्मविधिः ॥
तत्र तावत्सुखप्रसवार्थं सोष्यन्तीकर्म ।
सोष्यन्तीं (प्रसवशूलवतीं) प्रसवोन्मुखीं स्त्रियमद्भिरभ्युक्ष्यति ।
(क) अद्भिरभ्युक्षणम् -
ॐ एजत्विति प्रजापतिर्ऋषिः पंक्तिश्छन्दः गर्भो देवता अभ्युक्षणे विनियोगः ।
ॐ एजतु दशमास्यो गर्भो जरायुणा सह । यथायं वायुरेजति यथा समुद्राएजति । एवायं दशमास्योऽ अस्रज्जरायुणा सह ॥
इत्यभ्युक्ष्य मन्त्रं जपेत् ।
(ख) मन्त्रजपः
ॐ अवैत्विति प्रजापतिऋषिः पङ्क्तिश्छन्दः उल्वं देवता जपे विनियोगः ।
ॐ अवैतु पृश्नि शेवल शुने जरावत्तवे नैवमा सेन पीबरीम्। न कस्मिश्चनायतमपजरायु पद्मताम् ॥
इति पठेत् । एतच्च गर्भमात्रविमोक्षणे कार्यम् ॥
(ग) जातकर्म
अथ सन्ततौ जाते पिता शीघ्रं सचैलं स्नायात् । तत्र सङ्कल्पः-
ॐ अद्येहामुकोऽहं पुत्र/पुत्रीजनननिमित्तकं सचैलं स्नानं करिष्ये ।
इति सङ्कल्प्य स्नात्वा शुभे नवे धौते वाससी परिधायाचम्य प्राङ्मुख उपविश्याचम्य पूजासामग्रीं सम्पाद्य नालच्छेदनात्पूर्वं दीपकलशगणेशपूजनं कुर्यात् । अद्येहामुकोऽहं जातस्य/जातायाःपुत्रस्य/पुत्र्या दीर्घायुरारोग्यावाप्तये करिष्यमाणजातकर्मणि निर्विघ्नताकार्यसिद्धये पूर्वाङ्गत्वेन दीपकलशगणेशपूजनं करिष्ये । इति सङ्कल्प्य यथाविधि गणेशादीन् सम्पूज्य दक्षिणां दत्त्वा प्रधानसङ्कल्पं कुर्यात् ।
(घ) प्रधानसङ्कल्पः
अद्येहेत्यादि सङ्कीर्त्य अमुकोऽहमस्य शिशोर्गर्भाम्बुपानजनितसकलदोषनिवृत्यर्थम् आयुर्मेधादिवृद्ध यर्थं बीजगर्भसमुद्भवैनोनिबर्हणद्वारा श्रीमत्परमेश्वरप्रीत्यर्थं जातकर्माख्यं कर्म करिष्ये ।
(ङ) मातृकापूजा
अद्येहामुकोऽहं पुत्रजनननिमित्तकं गौर्यादिषोडशमात्काणां पूजनं करिष्ये । इति सङ्कल्प्य तासां पूजनं विधाय वसोर्धाराः पातयित्वा आभ्युदयिकश्राद्धं हेम्ना विदध्यात् ।
(च) नान्दीश्राद्धम्
तत्र नान्दीश्राद्धं हेम्ना कुर्यात् ।
सङ्कल्पः-
अद्येहेत्यादि अमुकसगोत्राणामस्मन्मातृपितामहीप्रपितामहीनाम् अमुकामुकामुकदेवीनां नान्दीमुखीनां तथामुकसगोत्राणामस्मत्पितृपितामहप्रपितामहानाम् अमुकामुकामुकशर्मणां तथामुकगोत्राणामस्मन्मातामहप्रमातामहवृद्धप्रमातामहानाम् अमुकामुकामुकशर्मणां सपत्नीकानां नान्दीमुखानां सत्यवसुसंज्ञकविश्वेदेवपूर्वकं संक्षिप्तसङ्कल्पविधानेन पुत्र/पुत्रीजनननिमित्तं नान्दीमुखश्राद्धं करिष्ये ।
इति सङ्कल्प्य नान्दीश्राद्धं विधाय पुण्याहं वाचयेत्, यथा-
अमुकोऽहं जातस्य शिशोः करिष्यमाणजातकर्मकर्मणि सकलमङ्गलाभिवृद्धयर्थं ब्राह्मणद्वारा पुण्याहं वाचयिष्ये । तदङ्गत्वेन चतुर्णां ब्राह्मणानां पूजनं वरणञ्च करिष्ये ।
(छ) स्वस्तिवाचनम् नवग्रहाणां पूजनञ्च
ततो मङ्गलमन्त्रान् वाचयित्वा कलशे नवग्रहाणामावाहनपूर्वकं सम्पूज्य शिशोर्मेधाजननाख्यं कर्म कुर्यात् ।
(ज) मेधाजननाख्यं कर्म
तत्र सुवर्णादितैजसे पात्रे मधुघृते कृत्वा सुवर्णान्तर्हितयाऽनामिकयाऽऽदाय जातं शिशुं सकृत्प्राशयति (मेलयित्वा जातस्य जिह्वामनुमाष्टर्षीत्यर्थः । तत्र मन्त्राः -
ॐ भूस्त्वयि दधामि । ॐ भुवस्त्वयि दधामि ।
ॐ स्वस्त्वयि दधामि ।
ॐ भूर्भंवः स्वः सर्वं त्वयि दधामि ।
इति सकृत् प्राशयेदिति मेधाजननम् ।
(झ) आयुष्यकरणम्
जातस्य नाभिसमीपे दक्षिणकर्णसमीपे वा जपति
ॐ अग्निरायुष्मान्त्स वनस्पतिभिरायुष्मांस्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि ॥ १ ॥
ॐ सोमा आयुष्मान्सऽ ओषधीभिरायुष्मांस्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि ॥ २ ॥
ॐ ब्रह्माऽऽयुष्मत्तद् ब्राह्मणैरायुष्मत् तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि ॥ ३ ॥
ॐ देवाऽआयुष्मन्तस्ते व्रतैरायुष्मन्तस्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि ॥ ४ ॥
ॐ ऋषयऽआयुष्मन्तस्ते व्रतैरायुष्मन्तस्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि ॥ ५ ॥
ॐ पितरऽआयुष्मन्तस्ते स्वधाभिरायुष्मन्तस्तेन त्वाऽऽयुषाऽयुष्मन्तं करोमि ॥ ६ ॥
ॐ यज्ञऽआयुष्मान् स दक्षिणाभिरायुष्मांस्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि ॥ ७ ॥
ॐ समुद्रा आयुष्मान्स स्रवन्तीभिरायुष्मांस्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि ॥ ८ ॥
ततः -
ॐ त्र्यायुषन्जमदग्नेः कश्यपस्य त्र्यायुषम् । यद्देवेषु त्र्यायुषन्तन्नोऽअस्तु त्र्यायुषम् ॥
इति च त्रिः सकृद्वा जपेदिति एतदायुष्यकरणम् ।
(ञ) जाताभिमन्त्रणम्
शिशोः सर्वायुःप्राप्तिकामनया दिवस्परीत्येकादशभिर्मन्त्रैः पिता शिशुं सर्वाङ्गष्वभिमृशति, मन्त्राश्च यथा -
विनियोगः - दिवस्परीत्येतस्याऽनुवाकस्य वत्सप्रीतिर्भलन्दन ऋषिस्त्रिष्टुप्छन्दोऽग्निर्देवता जाताभिमन्त्रणे विनियोगः ।
ॐ दिवस्परि प्रथमं जज्ञे अग्निरस्मद्वितीयं परि जातवेदाः । तृतीयमप्सु नृमणाऽअजस्रमिन्धानऽएनं जरते स्वाधीः ॥१॥
ॐ विद्या तेऽअग्ने वेधा त्रयाणि विद्या ते धाम विभूता पुरुत्रा विद्या ते नाम परमं गुहा यद्विद्या तमुत्सं यत ऽआजगन्थ ॥२॥
ॐ समुद्रे त्वा नृमणाऽअप्स्वन्तर्नुचक्षा ईधे दिवोऽअग्नऽ ऊधन् । तृतीये त्वा रजसि तस्थिवाः समपामुपस्थे महिषाऽअवर्द्धन् ॥३॥
ॐ अक्रन्ददग्निस्तनयन्निव द्यौः क्षामा रेरिहद्वीरुधः समञ्जन् । सद्यो जज्ञानो व्वि हीमिद्धोऽ अख्यदारोदसी भानुना भात्यन्तः ॥४॥
ॐ श्रीणामुदारो धरुणो रयीणां मनीषाणां प्रार्पणः सोमगोपाः । व्वसोः सूनुः सहसोऽअप्सु राजा विभात्यग्रऽउषसाभिधानः ॥५॥
ॐ व्विश्वस्य केतुर्भुवनस्य गर्भऽआ रोदसीऽअपूणाज्जायमानः । व्वीडुञ्चिदद्रिमभिनत्परायञ्जना यदग्निमयजन्त पञ्च ॥६॥
ॐ उशिक्पावकोऽअरतिः सुमेधा मत्त्र्येष्वग्निरमृतो निधायि । इयर्ति धूममरुषं भरिभ्रदुच्छुक्रेण शोचिषा द्यामिनक्षन् ॥७॥
ॐ दृशानो रुक्मऽउर्व्या व्यद्यौद् दुर्म्मर्षमायुः श्रिये रुचानः । अग्निरमृतोऽअभवद्द्योभिर्यदेनं द्यौरजनयत्सुरेताः ॥८॥
ॐ यस्तेऽ अद्य कृणवद्भद्रशोचेऽपूपन्देव घृतवन्तमग्ने । प्र तन्नय पतरं वस्यऽअच्छाभि सुम्नं देवभक्तं यविष्ठ ॥९॥
ॐ आ तं भज सौश्रवसेष्वग्नऽ उक्थऽउक्थऽआभज शस्यमाने । प्रियः सूर्ये प्रियोऽ अग्ना भवात्युज्जातेन भिनददुज्जनित्वैः ॥१०॥
ॐ त्वामग्ने यजमानाऽअनुयून्विश्वा व्वसु दधिरे वार्याणि । त्वया सह द्रविणमिच्छमाना व्ब्रजं गोमन्तमुशिजो व्विवब्रुः ॥११॥
इति एकादशर्चः पठित्वा अस्ताव्यग्निरिति द्वादशीमृचं न पठेत् । दिवस्परीत्येतस्यानुवाकस्योत्तमामृचं परिशिनष्टीति पारस्करः ।)
(ट) प्रैषवाक्यपठनम्
अथ शिशोः पूर्वादिचतुर्दिक्षु मध्ये च ब्राह्मणान् संस्थापयेत् । चत्वारश्चतुर्दिक्षु पञ्चमो मध्ये नैर्ऋत्यां वा स्थाप्यः "इममनुप्राणित" इति प्रैषं तान्प्रति ब्रूयात् । ततः पूर्वदिक्स्थितो विप्रः शिशुसम्मुखं तिष्ठन् तं संलक्ष्य 'प्राण' इति तारस्वरं ब्रूयात् । दक्षिणदिक्स्थितोऽपि तथा तिष्ठन् 'व्यान' इति ब्रूयात् ॥ पचिमदिक्स्थितोऽपि तथैव 'अपान' इति ब्रूयात् । उदक्संस्थित 'उदान' इति ब्रूयात् । मध्यमस्तूपरिष्टादवेक्ष्यमाणः 'समान' इति ब्रूयात् । पञ्च ब्राह्मणाभावे पिता स्वयमेव तत्र तत्र गत्वा शिशोरभिमुखो प्राण इत्यादि ब्रूयात् । अस्मिन्पक्षे प्रैषो न भवति । अथ यस्मिन्देशे शिशुर्जातस्तं देशमनामिकया स्पृशन् एतं मन्त्रं पठन्परामृशति ।
(ठ) जन्मभूम्यभिमन्त्रणम्
तत्र मन्त्रः -
ॐ वेद ते भूमिहृदयमित्यस्य पंक्तिश्छन्दः पृथिवी देवता जन्मभूम्यभिमन्त्रणे विनियोगः ।
ॐ वेद ते भूमिहृदयं दिवि चन्द्रमसि श्रितम् । वेदाहं तन्मां तद् विद्यात्पश्येम शरदः शतञ्जीवेम शरदः शत श्रृणुयाम शरदः शतम् ॥
इति भूमिमभिमन्त्र्य शिशुं स्पृष्ट्वा जपति
ॐ अश्मा भव परशुर्भव हिरण्यमसुतं भव । आत्मा वै पुत्रनामासि स जीव शरदः शतम् ।
अथास्य मातरं दृष्ट्वा जपति-
ॐ इडासि मैत्रावरुणी वीरे वीरमजीजनथाः। सा त्वं वीरवती भव याऽस्मान् वीरवतोऽकरत् ॥
(ड) स्तनप्रदानम्
अथ शिशोर्मातुर्दक्षिणं स्तनं प्रक्षाल्य शिशवे प्रयच्छति -
ॐ इम ं स्तनमूर्जस्वन्तमिति परमेष्ठी ऋषिः त्रिष्टुप्छन्दः अग्निर्देवता स्तनप्रदाने विनियोगः ।
ॐ इम स्तनमूर्जस्वन्तं धयापां प्रपीनमग्ने शरीरस्य मध्ये । मधुमन्तमर्व्वन्त्समुद्रिय सदनमा विशस्व ॥ उत्सजुषस्व
ततो वामं स्तनं प्रक्षाल्य प्रयच्छति ।
ॐ यस्ते स्तन इति दीर्घतमा ऋषिस्त्रिष्टुप्छन्दः गौर्देवता स्तनप्रदाने विनियोगः ।
ॐ यस्ते स्तनः शशयो यो मयोभूर्यो रत्नधा वसुविद्यः सुदत्रः । येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवेऽकः । उर्व्वन्तरिक्षमन्वेमि ॥
(ढ) उदककुम्भस्थापनम्
अथ शिशोः शिरः प्रदेशे जलपूर्ण कुम्भं दशदिनपर्यन्तं निदधाति ।
ॐ आपो देवेष्वित्यस्य प्रजापतिर्ऋषिरनुष्टुप्छन्द आपो देवताः सूतिकायाः शिरः प्रदेशे रक्षार्थोदककुम्भस्थापने विनियोगः ।
ॐ आपो देवेषु जाग्रथ यथा देवेषु जाग्रथ। एवमस्यां सूतिकायां सपुत्रिकायां जाग्रथ ॥
तत्पात्रं सूतिकोत्थापनपर्यन्तं तत्रैव तिष्ठति ।
(ण) सूतिकाद्वारदेशेऽग्निस्थापनं हवनञ्च
ततः सूतिकाद्वारदेशे वेदीं कृत्वा सूतिकाग्निमुपसमाधाय पञ्चभूसंस्कारपूर्वकमग्नि संस्थाप्य (अत्र प्रणीताप्रणयनादयो न भवन्ति, पञ्चभूसंस्कारास्तु भवन्त्येव) स्थापितमग्नि 'एतन्ते' इति प्रतिष्ठाप्य प्रगल्भनामाग्निमावाह्य ॐ अग्नये नमः इति पाद्यादिभिः सम्पूज्य होमं कुर्यात् ।
तण्डुलफलिकाकणतुषमिश्रान्सर्षपान्गृहीत्वा
ॐ शण्डामर्का इति प्रजापतिर्ऋषिरनुष्टुप्छन्दोऽग्निर्देवता सूतिकाद्वाराग्नौ तण्डुलफलिकाकणतुषमिश्रसर्षपहोमे विनियोगः ।
ॐ शण्डा मर्का उपवीरः शौण्डिकेया उलूखलः मलिम्लुचो द्रोणासश्च्यवनो नश्यतादितः स्वाहा ॥ इदमग्नये न मम ।
इदं शण्डामर्कोपवीरशौण्डिकेयोलूखलमलिम्लुचद्रोणासश्च्यवनेभ्यः, इति प्रथमाहुतौ त्यागः ।
ॐ आलिखन्निति प्रजापतिऋषिरनुष्टुप्छन्दोऽग्निर्देवता सूतिकाग्नौ तण्डुलफलिकाकणतुषमिश्रसर्षपहोमे विनियोगः ।
ॐ आलिखन्ननिमिषः किं वदन्तऽउपश्रुतिः हर्य्यक्षः कुम्भीशत्रुः पात्रपाणिर्नुमणिः । हन्त्रीमुखः सर्षपारुणश्च्यवनो नश्यतादितः स्वाहा ॥ इदमग्नये न मम ।
इदमालिखन्ननिमिषकिंवदन्तऽ उपश्रुतिहर्यक्ष कुम्भीशत्रुपात्रपाणिनृमणिहन्त्रीमुखसर्षपारुणच्यवनेभ्यः, इति द्वितीयाहुतौ त्यागः ।
अस्मिन् होमे कुशकण्डिका न भवति । स चाग्निरुत्थानपर्यन्तं दशदिनावधि यथा निर्वापितो न भवति तथा कार्यम् । उत्थापनं च दशमदिन एव । एता आहुतयो दशदिनपर्यन्तं प्रत्यहं सायम्प्रातराहुतिद्वयेन चत्वारिंशत्संख्याका भवन्ति ।
(त) बालग्रहादिशमनम्
अथ यदि कुमारनामा बालग्रहो रोदनादिना कुमारमुपद्रुतं कुर्यात्तदा तदुपद्रवनिवृत्तये तं बालं मत्स्यजालेनोत्तरीयेण वा प्रच्छाद्याङ्के निधायेमं जपेत् -
ॐ कुर्कुरः सुकुर्कुरः कुर्कुरो बालबन्धनः । चेच्चेच्छुनक सूज नमस्तेऽअस्तु सीसरो लपेतापहर १॥
तत्सत्यम् यत्ते देवा वरमददुः स त्वं कुमारमेव वा वृणीथाः । चेच्चेच्छुनक सूज नमस्तेऽअस्तु सीसरो लपेतापहर २ ॥
तत्सत्यं यत्ते सरमा माता सीसरः पिता श्यामशवलौ भ्रातरौ । चेच्चेच्छूनक सृज नमस्तेऽअस्तु सीसरो लपेतापहर ३ ॥
न नामयति न रुदति न हृष्यति न ग्लायति । यत्र वयं वदामो यत्र चाभिमृशामसि ॥
इति मन्त्रेणाभिमृश्य दक्षिणासङ्कल्पं कुर्यात् ।
(थ) दक्षिणादानम्
अद्येहामुकोऽहं जातस्य शिशोः कृतैतज्जातकर्मणः साङ्गतायै साद्गुण्यार्थं च इमां दक्षिणां नानानामगोत्रेभ्यो ब्राह्मणेभ्यो विभज्य दास्ये ।
ततो भूयसीं सङ्कल्प्य ब्राह्मणेभ्यो दद्यात् । "प्रथमेऽह्नि तथा षष्ठे दाता नाप्नोति सूतकम्" इति वचनात्तत्र दानप्रतिग्रहौ न दोषायेति ।
(द) नालच्छेदनम्
अष्टाङ्गुलं परित्यज्य नालच्छेदनं कुर्यात् । ततोऽभिषेकतिलकमन्त्रपाठादि च कारयेत् ॥
॥ इति जातकर्मविधिः ॥
सम्बन्धित पाठ र तयारी
स्रोत र सम्पादन
सामग्री व्यवस्थापन: Karmakanda Admin
स्रोत: उपलब्ध गराइएको कर्मकाण्ड संस्कार पाठसंग्रह र अभिलेखित सन्दर्भ सामग्री।

