गर्भाधान संस्कार
विषयसूची
तत्र प्रसङ्गाद्रजस्वलाधर्मानाह व्यासः -
रजसो दर्शनान्नारी सर्व्वमेव परित्यजेत् ।
सर्वेरलक्षिता शीघ्रं लज्जिता स्वगृहे वसेत् ॥
एकाम्बरधरा दीना स्नानालङ्कारवर्जिता ।
मौनिन्यधोमुखी चक्षुःपाणिपद्भिरचञ्चला ॥
अश्नीयात् केवलं नक्तं भक्तं मृण्मयभाजने ।
स्वपेद् भूमावप्रमत्ता क्षपेदेवमहस्त्र्यहम् ॥
स्नायादथार्तववती सचैलाऽनुदिते रवौ ।
विलोक्य भर्तृवदनं शुद्धा भवति धर्मतः ॥
अनूढा मातृवदनदर्शनाच्छुद्धिमाप्नुयात् ।
शुद्धा भवेच्चतुर्थेऽह्नि स्नानेन स्त्री रजस्वला ॥
दैवे कर्मणि पित्र्ये च पञ्चमेऽहनि शुद्ध्यति ।
अथ स्नानानन्तरं पुनरपि रजोदर्शने जाते शुद्धा एवेत्याहापस्तम्बः -
रजस्वला यदा स्नाता पुनरेव रजस्वला ।
अष्टादशदिनादर्वागशुचित्वं न विद्यते ॥
॥ इति ॥
गर्भाधानप्रयोगः -
तत्र प्रथमरजोदर्शने जाते प्रातर्भर्ता अभ्यङ्गपूर्वकं स्नात्वा सर्वोषधिसप्तमृत्तिकापञ्च-त्वक् पञ्चपल्लवसहितकलशोदकेन वधू स्नापयित्वा अहते धौते वाससी परिधाय स्वासने समुपविश्याचम्य अर्घ्य संस्थाप्य प्राणायामं कृत्वा सङ्कल्पं कुर्यात् ।
(क) सङ्कल्पः
ॐ अद्येहेत्यादि (अमुक) गोत्रः (अमुक) प्रवरः (अमुक) राशिः (अमुक) शर्मा/वर्मा/गुप्तः/दासः अहम् (अमुक) राशेरस्या वध्वाः संस्कारातिशयद्वारा अस्यां जनिष्यमाणसर्वगर्भाणां बीजगर्भसमुद्भवैनोनिबर्हणद्वारा श्रीपरमेश्वरप्रीतये गर्भाधानसंस्कारं करिष्ये । तत्पूर्वाङ्गत्वेन दीपकलशगणेशपूजनपूर्वकं मातृपूजननान्दीश्राद्धपुण्याहवाचनानि च करिष्ये ।
इति सङ्कल्प्य यथोक्तपूजाविधानानि सम्पाद्य रात्रौ ज्योतिःशास्त्रोक्ते सुमुहूर्ते गर्भाधानं कुर्यात्।
(ख) गर्भाधाने नियमाः
यस्मिन्नृक्षे भवेद्गर्भस्तस्माद्यद्दशमं भवेत् ।
तत्रापत्यं प्रजायेत तस्मादृक्षत्रयं त्यजेत् ॥
पित्र्यं पौष्णं च ज्येष्ठां च यत्नतो वर्जयेद्बुधः ।
षोडशर्त्तनिशाः स्त्रीणां तासु युग्मासु संविशेत् ॥
षष्ठदिनस्य युग्मत्वेऽपि "षष्ठयां स्यान्मध्यमः सुतः" इति वचनात् षष्ठं दिनं त्याज्यम् ।
तस्माद्रजोदर्शनादारभ्य चतस्रो रात्रीस्त्यक्त्वा पञ्चमीसप्तम्यौ अयुग्मत्वाद् षष्ठीञ्च निषिद्धत्वात् सन्त्यज्य अष्टमीमारभ्य षोडशीपर्यन्तं युग्मासु रात्रिषु चन्द्रतारानुकूलासु मघा-रेवती-ज्येष्ठानक्षत्रवर्जितासु अनुरागिणीं स्वलङ्कृतां स्त्रियं स्वयं च स्वलङ्कृतो द्विगुणानुरागः सुलग्ने रात्रौ गर्भाधानं कुर्यात् । पुत्रीकामस्तु विषमरात्रौ गर्भाधानं कुर्यात् ।
(ग) तत्र मन्त्रपाठः
ॐ विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु आसिञ्चतु प्रजापतिर्धाता गर्भ दधातु ते ॥
गर्भ धेहि सिनीवालि गर्भ धेहि पृथुष्टुके।
गर्भ तेऽअश्विनौ देवावाधत्तां पुष्करस्रजौ ॥
ॐ हिरण्मयीऽअरणी याभ्यान्निर्मन्थतामश्विनौ देवौ। तं ते गर्भ दधामहे दशमे मासि सूतवे ॥
ॐ रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय ।
इन्द्रो मायाभिः पुरुरूप ईयते युक्त्वा यस्य हरयः शता दश ॥
इति पठित्वाऽभिगमनं कुर्यात् । ततः शौचं विधायाचम्य वध्वा दक्षिणांसस्योपरि हस्तं नीत्वा हृदयमालभते ।
(घ) हृदयालम्भनम्
ॐ यत्ते सुसीमे हृदयं दिवि चन्द्रमसि श्रितम् ।
वेदाहं तन्मां तद्विद्यात् पश्येम शरदः शतञ्जीवेम शरदः शतशृणुयाम शरदः शतम् ॥
इति पठित्वा ताम्बूलचर्वणं कुर्वीत इति ।
एवं यदि गर्भ न दधाति तत्रोपायमाह ।
(ङ) गर्भाधानोपायाः
सैह्याः श्वेतपुष्पिकामूलं मूलनक्षत्रे उत्पाट्च उदपेषं पिष्ट्वा चतुर्थेऽहनि स्नातायां निशायां वध्वा दक्षिणस्यां नासिकायामासिञ्चति । तत्र मन्त्रः
ॐ इयमौषधीस्त्रायमाणा शरावती सहमान अस्यामहं बृहत्याः पुत्रः पितुरिव जाग्रभम् ॥
द्वितीयोपायमाह- पिण्डपितृयज्ञेऽनवघ्रातं मध्यमं पिण्डं पत्नीं प्राशयेत् । तत्र मन्त्रः-
ॐ आधत्त पितरो गर्भ कुमारं पुष्करस्रजम् । यथेह पुरुषोऽसत् ॥
तृतीयोपायमाह - नित्यहोमात्पूर्वं स्त्री एकामाहुतिं जुहुयात् । तत्र मन्त्रः-
ॐ पुमांसौ मित्रावरुणौ पुमांसावश्विनावुभौ । पुमानिन्द्रश्च सूर्य्यश्च पुमांस वर्द्धतां मयि स्वाहेति ॥
ततो योनिस्फुरणादिना गर्भाधानं जातमिति निश्चित्य व्यायामातिभोजनदिवास्वापा-रोहणकुक्कुटासनादीनि वर्जयेत् । ततः प्रातर्दक्षिणां दद्यात् ॥
॥ इति गर्भाधानसंस्कारः ॥
सम्बन्धित पाठ र तयारी
स्रोत र सम्पादन
सामग्री व्यवस्थापन: Karmakanda Admin
स्रोत: उपलब्ध गराइएको कर्मकाण्ड संस्कार पाठसंग्रह र अभिलेखित सन्दर्भ सामग्री।

