अन्नप्राशन संस्कार
विषयसूची
पुत्रस्य षष्ठादौ समे पुत्र्याः पञ्चमादौ विषमे मासेऽन्नप्राशनं विधेयम् ।
(क) दीपकलशगणेशपूजा
सभार्यः पिता शिशुना सह मङ्गलस्नानं कृत्वा अहते वाससी परिधाय शुद्धासन उपविश्याचम्य कर्मपात्रं कृत्वा कुशतिलजलान्यादाय प्रतिज्ञासङ्कल्पं कुर्यात्
ॐ अद्येत्यादि देशकालौ स्मृत्वा ममास्य शिशोर्मातृगर्भमलप्राशनशुद्धयर्थं विशेषतः ब्रह्मवर्चसइन्द्रियायुर्बललक्षणफलसिद्धिपूर्वकं बीजगर्भसमुद्भवैनोनिबर्हणद्वारा श्रीपरमेश्वरप्रीत्यर्थं दीपकलशगणेशपूजनपूर्वकम् अन्नप्राशनाख्यकर्माहं करिष्ये ।
ततो ब्राह्मणान् वृत्वा पुण्याहं वाचयेत् । ततः ॐ नमोऽस्त्वनन्तायेत्यादिना दीपं सम्पूज्य, ॐ गणानान्त्वेत्यादिना गणेशं सम्पूज्य, कलशस्थापनविधिना कलशं संस्थाप्य पूजयेत् ।
(ख) अन्नप्राशनम्
भूमौ प्रस्थमितं धान्यं संस्थाप्य तदुपरि श्वेतवस्त्रं प्रसार्य तत्र भद्रासनं स्वस्तिकासनं वा विलिख्य बालकमुवेशयेत् । ततः सर्वान् रसान् सर्वमन्नं चैकस्मिन् पात्रे उद्धृत्य तूष्णीम् "ॐ हन्त" इति मन्त्रेण वा सकृदेव कुमारं प्राशयेत्, कुमार्या अमन्त्रकं कुर्यात् ।
ततो ब्राह्मणाय दक्षिणां दत्त्वा देवान् विसर्जयेत् । ततो ब्राह्मणभोजनम् । इत्यन्नप्राशनम् ।
(ग) निष्क्रमणम्
कुमारस्य जन्मतश्चतुर्थे मासि गृहाद्वहिर्नयनं (निष्क्रमणं) कार्यम्। 'अन्नप्राशनकाले वा' इति वचनादन्नप्राशनान्तरं वा पिता शिशुं गृहाद्वहिर्निष्क्रामयेत् । तच्च नामकरणप्रकरणप्रोक्तविधिवत् 'आकृष्णेनेति' मन्त्रेण पाद्यादिभिरुपचारैः सूर्य सम्पूज्य 'तच्चक्षुरिति' मन्त्रेण पिता कुमारं सूर्य दर्शयेत् । इति निष्क्रमणम् ।
(घ) जीविकापरीक्षा
अन्नप्राशनादीनि सर्वाण्यपि कर्माणि समाप्य शिशुं देवताग्रे भूमौ समुपवेश्य तस्याग्रे पुस्तकम्, लेखनीम्, स्वर्णम्, रौप्यम्, वस्त्रम्, शस्त्रम्, शिल्पभाण्डानि मृदादिकञ्च स्थापयित्वा जीविकापरीक्षां कुर्यात् । तत्र शिशुः स्वेच्छया यद्वस्तु प्रथमं स्पृशेत् सा अस्य जीविकेति विद्यात् । इति जीविकापरीक्षा ।
(ङ) देवदर्शनम्
अन्नप्राशनं जीविकापरीक्षां च समाप्य धात्र्या अथवा कुले या वृद्धाऽस्ति, तया स्वकीये पीठे शिशुं स्थापयित्वा यत्र कुत्रापि देवमन्दिरे देवदर्शनार्थं वाद्यघोषादिमङ्गलयात्रापूर्वकं नयेत् । तत्र नीत्वा देवं पाद्यादिभिरुपचारैर्यथाविधि सम्पूज्य कुमारं देवदर्शनं कारयेदिति देवदर्शनम् ।
॥ इति अत्तप्राशनसंस्कारः ॥
मुहूर्तचिन्तामणौ-
तस्मिन् काले स्थापयेत्तत्पुरस्ताद्वस्त्रं शस्त्रं पुस्तकं लेखनीं च ।
स्वर्ण रौप्यं यच्च गृह्णाति बालस्तैराजीवैस्तस्य वृत्तिः प्रदिष्टा ॥
सम्बन्धित पाठ र तयारी
स्रोत र सम्पादन
सामग्री व्यवस्थापन: Karmakanda Admin
स्रोत: उपलब्ध गराइएको कर्मकाण्ड संस्कार पाठसंग्रह र अभिलेखित सन्दर्भ सामग्री।

